Thursday, January 30, 2020

विसर्गसन्धिः (visarga sandhi)

१. ओत्वम्

अ + ः + अ / मृदुव्यञ्जनम् / अनुनासिकः / अन्तस्थः = ओ
अ + ः + अ
रामः + अनन्तः = रामो + अनन्तः = रामोनन्तः

अ + ः + मृदुव्यञ्जनम्
रामः + जनकः = रामो जनकः । (मृदुव्यञ्जनम्)

अ + ः +  अनुनासिकः
रामः + नयति = रामो नयति । (अनुनासिकः)

अ + ः + अन्तस्थः
रामः + याति = रामो याति । (अन्तस्थः)


रामः + अत्ति = रामोत्ति । (अकारः)
रामः + जयते = रामो जयते । (मृदुव्यञ्जनम्)

२. जिह्वामूलीयः / उपध्मानीयः

स्वर + ः + क/ख/प/फ= स्वरः + क/ख/प/फ (जिह्वामूलीयः / उपध्मानीयः विकल्पेन)
रामः + खादति (जिह्वामूलीयः)
रामः पखति (उपध्मानीयः)

३. लोपः

३.१ आ + ः + स्वरः / मृदुव्यञ्जनम् / अन्तस्थः /अनुनासिकः = आ (विसर्गलोपः)
३.२ अ + ः + स्वरः (अ विहाय) = अ (विसर्गलोपः)
देवाः + वयम् = देवा वयम् ।
रामः + इच्छति = राम इच्छति ।

४. रेफः

इ-औ + ः + स्वर / मृदुव्यञ्जनम् / अन्तस्थः / अनुनासिकः = इ-औ + र्  + स्वर / मृदुव्यञ्जनम् / अन्तस्थः / अनुनासिकः ।
शम्भुः + इच्छति = शम्भुरिच्छति । (स्वरः)
हरिः + जयते = हरिर्जयते । (मृदुव्यञ्जनम्)
शम्भुः + विजयते = शम्भुर्विजयते । (अन्तस्थः)

५. स / श /ष

अ-औ + ः + ट/ठ/त/थ/श/ष/स = अ-औ + स् + ट/ठ/त/थ/श/ष/स ।
हरिः + तिष्ठति = हरिस्तिष्ठति ।
शम्भुः + स्थाणुः = शम्भुस्स्थाणुः ।
रामः + चरति = राम + स् + चरति -> राम + श् + चरति = रामश्चरति ।
रामः + टङ्कारम् = राम + स् + टङ्कारम् -> राम + ष् + टङ्कारम् = रामष्टङ्कारम् ।

Tuesday, September 6, 2016

॥श्रीरामोदन्तम्॥

[नमांसि,
On this पावन occasion of ऋषिपञ्चमी (06 Sept 2016), I post the रामोदन्तम् module for the use of second level beginners in Samskrtam. This text has been advocated for second level learners of the Samskrtam language, because of its simplicity of language, familiarity of subject, and directness in narration. The story here is divided into seven kAnDas as in mUla rAmAyaNam of vAlmIki. It is interesting, flowy and covers all major events of rAmAyaNam.

Some relevant points about the digitized learning material-

1. Source text, taken from http://sanskritdocuments.org/doc_raama/rAmodantam.html?lang=sa 
2. पदविभाग and अन्वय are done by me. (The line immediately below every mUlAm shloka is पदविभाग, and below it is अन्वय)
3. For now, there are no word to word meanings- but will be added later. (Every third sentence (below अन्वय in the same order is for that purpose..)
4. The variations in text are kept in mUlam but not taken in पदविभागः and अन्वयः.
5. Then extra shlokas, mentioned by the encoder as "found in only some source-texts" have been totally removed here. (One can find them in the link- of digitized source text http://sanskritdocuments.org/doc_raama/rAmodantam.html?lang=sa)
6. Future work- Samskrtam grammar detail for tough words, English translation, whole story in prose format, comprehension (questions etc.) will be updated in a while.
Hope this helps. :) All the best]
-------------------------------------------------------

॥श्रीरामोदन्तम् ॥

॥अथ बालकाण्डः ॥


श्रीपतिं प्रणिपत्याहं श्रीवत्साङ्कितवक्षसम् ।
श्रीरामोदन्तमाख्यास्ये श्रीवाल्मीकिप्रकीर्तितम् ॥१॥
श्रीपतिं प्रणिपत्य अहं श्रीवत्साङ्कित-वक्षसम् । श्रीराम-उदन्तम् आख्यास्ये श्रीवाल्मीकि-प्रकीर्तितम् ॥१॥
अहं श्रीपतिं श्रीवत्साङ्कित-वक्षसं प्रणिपत्य श्रीवाल्मीकि-प्रकीर्तितं श्रीराम-उदन्तम् आख्यास्ये  ॥१॥
अहं श्रीपतिं श्रीवत्साङ्कित-वक्षसं प्रणिपत्य श्रीवाल्मीकि-प्रकीर्तितं श्रीराम-उदन्तम् आख्यास्ये  ॥१॥

पुरा विश्रवसः पुत्रो रावणो नाम राक्षसः ।
आसीदस्यानुजौ चास्तां कुम्भकर्णविभीषणौ ॥२॥
पुरा विश्रवसः पुत्रः रावणः नाम राक्षसः । आसीद् अस्य अनुजौ च आस्तां कुम्भकर्ण-विभीषणौ ॥२॥
पुरा विश्रवसः पुत्रः रावणः नाम राक्षसः आसीद् । अस्य च कुम्भकर्ण-विभीषणौ अनुजौ आस्ताम्  ॥२॥
पुरा विश्रवसः पुत्रः रावणः नाम राक्षसः आसीद् । अस्य च कुम्भकर्ण-विभीषणौ अनुजौ आस्ताम्  ॥२॥

ते तु तीव्रेण तपसा प्रत्यक्षीकृत्य वेधसम् ।
वव्रिरे च वरानिष्टानस्मादाश्रितवत्सलात् ॥३॥
ते तु तीव्रेण तपसा प्रत्यक्षीकृत्य वेधसम् । वव्रिरे च वरान् इष्टान् अस्माद् आश्रित-वत्सलात् ॥३॥
ते तु तीव्रेण तपसा वेधसं प्रत्यक्षीकृत्य च अस्माद् आश्रित-वत्सलात् इष्टान् वरान् वव्रिरे ॥३॥
ते तु तीव्रेण तपसा वेधसं प्रत्यक्षीकृत्य च अस्माद् आश्रित-वत्सलात् इष्टान् वरान् वव्रिरे ॥३॥

रावणो मानुषादन्यैरवध्यत्वं तथानुजः ।
निर्देवत्वेच्छया निद्रां कुम्भकर्णोऽवृणीत च ॥४॥
रावणः मानुषाद् अन्यैः अवध्यत्वं तथा अनुजः । निर्देवत्व-इच्छया निद्रां कुम्भकर्णः अवृणीत च ॥४॥
रावणः मानुषाद् अन्यैः अवध्यत्वं (अवृणीत), तथा अनुजः कुम्भकर्णः निर्देवत्व-इच्छया निद्रां च अवृणीत ॥४॥
रावणः मानुषाद् अन्यैः अवध्यत्वं (अवृणीत), तथा अनुजः कुम्भकर्णः निर्देवत्व-इच्छया निद्रां च अवृणीत ॥४॥

विभीषणो विष्णुभक्तिं वव्रे सत्त्वगुणान्वितः ।
तेभ्य एतान्वरान्दत्त्वा तत्रैवान्तर्दधे प्रभुः ॥५॥
विभीषणः विष्णुभक्तिं वव्रे सत्त्वगुण-अन्वितः । तेभ्यः एतान् वरान् दत्त्वा तत्र एव अन्तर्दधे प्रभुः ॥५॥
सत्त्वगुण-अन्वितः विभीषणः विष्णुभक्तिं वव्रे । प्रभुः तेभ्यः एतान् वरान् दत्त्वा तत्र एव अन्तर्दधे ॥५॥
सत्त्वगुण-अन्वितः विभीषणः विष्णुभक्तिं वव्रे । प्रभुः तेभ्यः एतान् वरान् दत्त्वा तत्र एव अन्तर्दधे ॥५॥

रावणस्तु ततो गत्वा रणे जित्वा धनाधिपम् ।
लङ्कापुरीं पुष्पकं च हृत्वा तत्रावसत्सुखम् ॥६॥
रावणः तु ततः गत्वा रणे जित्वा धनाधिपम् । लङ्कापुरीं पुष्पकं च हृत्वा तत्र अवसत् सुखम् ॥६॥
ततः रावणः तु गत्वा, धनाधिपं रणे जित्वा, लङ्कापुरीं पुष्पकं च हृत्वा, तत्र सुखम् अवसत् ॥६॥
ततः रावणः तु गत्वा, धनाधिपं रणे जित्वा, लङ्कापुरीं पुष्पकं च हृत्वा, तत्र सुखम् अवसत् ॥६॥

यातुधानास्ततः सर्वे रसातलनिवासिनः ।
दशाननं समाश्रित्य लङ्कायां सुखमावसन् ॥७॥
यातुधानाः ततः सर्वे रसातल-निवासिनः । दशाननं समाश्रित्य लङ्कायां सुखम् अवसन् ॥७॥
ततः सर्वे यातुधानाः रसातल-निवासिनः दशाननं समाश्रित्य लङ्कायां सुखम् अवसन् ॥७॥
ततः सर्वे यातुधानाः रसातल-निवासिनः दशाननं समाश्रित्य लङ्कायां सुखम् अवसन् ॥७॥

मन्दोदरीं मयसुतां परिणीय दशाननः ।
तस्यामुत्पादयामास मेघनादाह्वयं सुतम् ॥८॥
मन्दोदरीं मयसुतां परिणीय दशाननः । तस्याम् उत्पादयामास मेघनाद-आह्वयं सुतम् ॥८॥
दशाननः मयसुतां मन्दोदरीं परिणीय तस्यां मेघनाद-आह्वयं सुतम् उत्पादयामास ॥८॥
दशाननः मयसुतां मन्दोदरीं परिणीय । तस्याम् मेघनाद-आह्वयं सुतम् उत्पादयामास ॥८॥

रसां रसातलं चैव विजित्य स तु रावणः ।
लोकानाक्रमयन् सर्वाञ्जहार च विलासिनीः ॥९॥
रसां रसातलं च एव विजित्य स तु रावणः । लोकान् आक्रमयन् सर्वान् जहार च विलासिनीः ॥९॥
स तु रावणः रसां रसातलं च एव विजित्य, सर्वान् लोकान् आक्रमयन्, विलासिनीः जहार च ॥९॥
स तु रावणः रसां रसातलं च एव विजित्य, सर्वान् लोकान् आक्रमयन्, विलासिनीः जहार च ॥९॥

दूषयन्वैदिकं कर्म द्विजानर्दयति स्म सः ।
आत्मजेनान्वितो युद्धे वासवं चाप्यपीडयत् ॥१०॥
दूषयन् वैदिकं कर्म द्विजान् अर्दयति स्म सः । आत्मजेन अन्वितः युद्धे वासवं च अपि अपीडयत् ॥१०॥
सः वैदिकं कर्म दूषयन्, द्विजान् अर्दयति स्म । युद्धे आत्मजेन अन्वितः वासवं च अपि अपीडयत् ॥१०॥
सः वैदिकं कर्म दूषयन्, द्विजान् अर्दयति स्म । युद्धे आत्मजेन अन्वितः वासवं च अपि अपीडयत् ॥१०॥

तदीयतरुरत्नानि पुनरानाय्य किङ्करैः ।
स्थापयित्वा तु लङ्कायामवसच्च चिराय सः ॥११॥
तदीय-तरु-रत्नानि पुनः आनाय्य किङ्करैः । स्थापयित्वा तु लङ्कायाम् अवसत् च चिराय सः ॥११॥
सः पुनः किङ्करैः तदीय-तरु-रत्नानि आनाय्य, लङ्कायाम् स्थापयित्वा तु चिराय अवसत् च ॥११॥
सः पुनः किङ्करैः तदीय-तरु-रत्नानि आनाय्य, लङ्कायाम् स्थापयित्वा तु चिराय अवसत् च ॥११॥

ततस्तस्मिन्नवसरे विधातारं दिवौकसः ।
उपगम्योचिरे सर्वं रावणस्य विचेष्टितम् ॥१२॥
ततः तस्मिन् अवसरे विधातारं दिवौकसः । उपगम्योचिरे सर्वं रावणस्य विचेष्टितम् ॥१२॥
ततः तस्मिन् अवसरे दिवौकसः विधातारं उपगम्य सर्वं रावणस्य विचेष्टितम् ऊचिरे ॥१२॥
ततः तस्मिन् अवसरे दिवौकसः विधातारं उपगम्य सर्वं रावणस्य विचेष्टितम् ऊचिरे ॥१२॥

तदाकर्ण्य सुरैः साकं प्राप्य दुग्धोदधेस्तटम् ।
तुष्टाव च हृषीकेशं विधाता विविधैः स्तवैः ॥१३॥
तद् आकर्ण्य सुरैः साकं प्राप्य दुग्ध-उदधेः तटम् । तुष्टाव च हृषीकेशं विधाता विविधैः स्तवैः ॥१३॥
विधाता तद् आकर्ण्य सुरैः साकं दुग्ध-उदधेः तटं प्राप्य हृषीकेशं विविधैः स्तवैः तुष्टाव च ॥१३॥
विधाता तद् आकर्ण्य सुरैः साकं दुग्ध-उदधेः तटं प्राप्य हृषीकेशं विविधैः स्तवैः तुष्टाव च ॥१३॥

आविर्भूयाथ दैत्यारिः पप्रच्छ च पितामहम् ।
किमर्थमागतोऽसि त्वं साकं देवगणैरिति ॥१४॥
आविर्भूय अथ दैत्यारिः पप्रच्छ च पितामहम् । किमर्थम् आगतः असि त्वं साकं देवगणैः इति ॥१४॥
अथ दैत्यारिः आविर्भूय पितामहं पप्रच्छ च “त्वं किमर्थम् देवगणैः साकं आगतः असि?” इति ॥१४॥
अथ दैत्यारिः आविर्भूय पितामहं पप्रच्छ च “त्वं किमर्थम् देवगणैः साकं आगतः असि?” इति ॥१४॥

ततो दशाननात्पीडामजस्तस्मै न्यवेदयत् ।
तच्छ्रुत्वोवाच धातारं हर्षयन्विष्टरश्रवाः ॥१५॥
ततः दशाननात् पीडाम् अजः तस्मै न्यवेदयत् । तत् श्रुत्वा उवाच धातारं हर्षयन् विष्टरश्रवाः ॥१५॥
ततः अजः दशाननात् पीडाम् तस्मै न्यवेदयत् । तत् श्रुत्वा हर्षयन् विष्टरश्रवाः धातारं उवाच ॥१५॥
ततः अजः दशाननात् पीडाम् तस्मै न्यवेदयत् । तत् श्रुत्वा हर्षयन् विष्टरश्रवाः धातारं उवाच ॥१५॥

अलं भयेनात्मयोने गच्छ देवगणैः सह ।
अहं दाशरथिर्भूत्वा हनिष्यामि दशाननम् ॥१६॥
अलं भयेन आत्मयोने गच्छ देवगणैः सह । अहं दाशरथिः भूत्वा हनिष्यामि दशाननम् ॥१६॥
आत्मयोने, अलं भयेन । देवगणैः सह गच्छ । अहं दाशरथिः भूत्वा दशाननम् हनिष्यामि ॥१६॥
आत्मयोने, अलं भयेन । देवगणैः सह गच्छ । अहं दाशरथिः भूत्वा दशाननम् हनिष्यामि ॥१६॥

आत्मांशैश्च सुराः सर्वे भूमौ वानररूपिणः ।
जायेरन्मम साहाय्यं कर्तुं रावणनिग्रहे ॥१७॥
आत्मांशैः च सुराः सर्वे भूमौ वानर-रूपिणः । जायेरन् मम साहाय्यं कर्तुं रावण-निग्रहे ॥१७॥
रावण-निग्रहे मम साहाय्यं कर्तुं सुराः सर्वे आत्मांशैः च भूमौ वानर-रूपिणः जायेरन् ॥१७॥
रावण-निग्रहे मम साहाय्यं कर्तुं सुराः सर्वे आत्मांशैः च भूमौ वानर-रूपिणः जायेरन् ॥१७॥

एवमुक्त्वा विधातारं तत्रैवान्तर्दधे प्रभुः ।
पद्मयोनिस्तु गीर्वाणैः समं प्रायात्प्रहृष्टधीः ॥१८॥
एवम् उक्त्वा विधातारं तत्र एव अन्तर्दधे प्रभुः । पद्मयोनिः तु गीर्वाणैः समं प्रायात् प्रहृष्टधीः ॥१८॥
एवम् विधातारं उक्त्वा प्रभुः तत्र एव अन्तर्दधे । पद्मयोनिः तु प्रहृष्टधीः गीर्वाणैः समं प्रायात् ॥१८॥
एवम् विधातारं उक्त्वा प्रभुः तत्र एव अन्तर्दधे । पद्मयोनिः तु प्रहृष्टधीः गीर्वाणैः समं प्रायात् ॥१८॥

अजीजनत्ततः शक्रो वालिनं नाम वानरम् ।
सुग्रीवमपि मार्ताण्डो हनुमन्तं च मारुतः ॥१९॥
अजीजनत् ततः शक्रः वालिनं नाम वानरम् । सुग्रीवम् अपि मार्ताण्डः हनुमन्तं च मारुतः ॥१९॥
ततः शक्रः वालिनं नाम वानरम् (अजीजनत्), मार्ताण्डः सुग्रीवम् अपि अजीजनत् । मारुतः हनुमन्तं च (अजीजनत्) ॥१९॥
ततः शक्रः वालिनं नाम वानरम् (अजीजनत्), मार्ताण्डः सुग्रीवम् अपि अजीजनत् । मारुतः हनुमन्तं च (अजीजनत्) ॥१९॥

पुरैव जनयामास जाम्बवन्तं च पद्मजः ।
एवमन्ये च विबुधाः कपीनजनयन्बहून् ॥२०॥
पुरा एव जनयामास जाम्बवन्तं च पद्मजः । एवम् अन्ये च विबुधाः कपीन् अजनयन् बहून् ॥२०॥
पद्मजः पुरा एव जाम्बवन्तं च जनयामास । एवम् अन्ये च विबुधाः कपीन् बहून् अजनयन् ॥२०॥
पद्मजः पुरा एव जाम्बवन्तं च जनयामास । एवम् अन्ये च विबुधाः कपीन् बहून् अजनयन् ॥२०॥

ततो वानरसङ्घानां वाली परिवृढोऽभवत् ।
अमीभिरखिलैः साकं किष्किन्धामध्युवास च ॥२१॥
ततः वानर-सङ्घानां वाली परिवृढः अभवत् । अमीभिः अखिलैः साकं किष्किन्धाम् अध्युवास च ॥२१॥
ततः वाली वानर-सङ्घानां परिवृढः अभवत् । अमीभिः अखिलैः साकं किष्किन्धाम् अध्युवास च ॥२१॥
ततः वाली वानर-सङ्घानां परिवृढः अभवत् । अमीभिः अखिलैः साकं किष्किन्धाम् अध्युवास च ॥२१॥

आसीद्दशरथो नाम सूर्यवंशेऽथ पार्थिवः ।
भार्यास्तिस्रोऽपि लब्ध्वासौ तासु लेभे न सन्ततिम् ॥२२॥
आसीद् दशरथः नाम सूर्यवंशे अथ पार्थिवः । भार्याः तिस्रः अपि लब्ध्वा असौ तासु लेभे न सन्ततिम् ॥२२॥
अथ सूर्यवंशे दशरथः नाम पार्थिव आसीद् । असौ तिस्रः भार्याः अपि लब्ध्वा तासु सन्ततिं न लेभे ॥२२॥
अथ सूर्यवंशे दशरथः नाम पार्थिव आसीद् । असौ तिस्रः भार्याः अपि लब्ध्वा तासु सन्ततिं न लेभे ॥२२॥

ततः सुमन्त्रवचनादृष्यशृङ्गं स भूपतिः ।
आनीय पुत्रकामेष्टिमारेभे सपुरोहितः ॥२३॥
ततः सुमन्त्र-वचनाद् ऋष्यशृङ्गं सः भूपतिः । आनीय पुत्रकाम-इष्टिम् आरेभे सपुरोहितः ॥२३॥
ततः सुमन्त्र-वचनाद् सः भूपतिः सपुरोहितः ऋष्यशृङ्गं आनीय पुत्रकाम-इष्टिम् आरेभे ॥२३॥
ततः सुमन्त्र-वचनाद् सः भूपतिः सपुरोहितः ऋष्यशृङ्गं आनीय पुत्रकाम-इष्टिम् आरेभे ॥२३॥

अथाग्नेरुत्थितः कश्चिद्गृहीत्वा पायसं चरुम् ।
एतत्प्राशय पत्नीस्त्वमित्युक्त्वाऽदान्नृपाय सः ॥२४॥
अथ अग्नेः उत्थितः कश्चिद् गृहीत्वा पायसं चरुम् । एतत् प्राशय पत्नीः त्वम् इति उक्त्वा अदात् नृपाय सः ॥२४॥
अथ कश्चिद् अग्नेः उत्थितः पायसं चरुम् गृहीत्वा “त्वम् एतत् पत्नीः प्राशय” इति उक्त्वा सः नृपाय अदात् ॥२४॥
अथ कश्चिद् अग्नेः उत्थितः पायसं चरुम् गृहीत्वा “त्वम् एतत् पत्नीः प्राशय” इति उक्त्वा सः नृपाय अदात् ॥२४॥

तद्गृहीत्वा तदैवासौ पत्नीः प्राशयदुत्सुकः ।
ताश्च तत्प्राशनादेव नृपाद्गर्भमधारयन् ॥२५॥
तद् गृहीत्वा तद् एव असौ पत्नीः प्राशयद् उत्सुकः । ताः च तत्प्राशनाद् एव नृपाद् गर्भम् अधारयन् ॥२५॥
असौ उत्सुकः तद् गृहीत्वा तद् एव पत्नीः प्राशयद् । ताः च नृपाद् तत्प्राशनाद् एव गर्भम् अधारयन् ॥२५॥
असौ उत्सुकः तद् गृहीत्वा तद् एव पत्नीः प्राशयद् । ताः च नृपाद् तत्प्राशनाद् एव गर्भम् अधारयन् ॥२५॥

पूर्णे कालेऽथ कौसल्या सज्जनाम्भोजभास्करम् ।
अजीजनद्रामचन्द्रं कैकेयी भरतं तथा ॥२६॥
पूर्णे काले अथ कौसल्या सज्जन-अम्भोज-भास्करम् । अजीजनद् रामचन्द्रं कैकेयी भरतं तथा ॥२६॥
अथ पूर्णे काले कौसल्या सज्जन-अम्भोज-भास्करं रामचन्द्रं अजीजनत् । कैकेयी भरतं तथा ॥२६॥
अथ पूर्णे काले कौसल्या सज्जन-अम्भोज-भास्करं रामचन्द्रं अजीजनत् । कैकेयी भरतं तथा ॥२६॥

ततो लक्ष्मणशत्रुघ्नौ सुमित्राजीजनत्सुतौ ।
अकारयत्पिता तेषां जातकर्मादिकं द्विजैः ॥२७॥
ततः लक्ष्मण-शत्रुघ्नौ सुमित्रा अजीजनत् सुतौ । अकारयत् पिता तेषां जातकर्मादिकं द्विजैः ॥२७॥
ततः सुमित्रा लक्ष्मण-शत्रुघ्नौ सुतौ अजीजनत् । पिता द्विजैः तेषां जातकर्मादिकं अकारयत् ॥२७॥
ततः सुमित्रा लक्ष्मण-शत्रुघ्नौ सुतौ अजीजनत् । पिता द्विजैः तेषां जातकर्मादिकं अकारयत् ॥२७॥

ततो ववृधिरेऽन्योन्यं स्निग्धाश्चत्वार एव ते ।
सकलासु च विद्यासु नैपुण्यमभिलेभिरे ॥२८॥
ततः ववृधिरे अन्योन्यं स्निग्धाः चत्वारः एव ते । सकलासु च विद्यासु नैपुण्यम् अभिलेभिरे ॥२८॥
ततः ते चत्वारः एव अन्योन्यं स्निग्धाः ववृधिरे । सकलासु च विद्यासु नैपुण्यम् अभिलेभिरे ॥२८॥
ततः ते चत्वारः एव अन्योन्यं स्निग्धाः ववृधिरे । सकलासु च विद्यासु नैपुण्यम् अभिलेभिरे ॥२८॥

ततः कदाचिदागत्य विश्वामित्रो महामुनिः ।
ययाचे यज्ञरक्षार्थं रामं शक्तिधरोपमम् ॥२९॥
ततः कदाचिद् आगत्य विश्वामित्रः महामुनिः । ययाचे यज्ञ-रक्षार्थं रामं शक्तिधर-उपमम् ॥२९॥
ततः कदाचिद् विश्वामित्रः महामुनिः आगत्य यज्ञ-रक्षार्थं शक्तिधर-उपमम् रामं ययाचे ॥२९॥
ततः कदाचिद् विश्वामित्रः महामुनिः आगत्य यज्ञ-रक्षार्थं शक्तिधर-उपमम् रामं ययाचे ॥२९॥

वसिष्ठवचनाद्रामं लक्ष्मणेन समन्वितम् ।
कृच्छ्रेण नृपतिस्तस्य कौशिकस्य करे ददौ ॥३०॥
वसिष्ठ-वचनाद् रामं लक्ष्मणेन समन्वितम् । कृच्छ्रेण नृपतिः तस्य कौशिकस्य करे ददौ ॥३०॥
नृपतिः वसिष्ठ-वचनाद् लक्ष्मणेन समन्वितम् रामं कृच्छ्रेण तस्य कौशिकस्य करे ददौ ॥३०॥
नृपतिः वसिष्ठ-वचनाद् लक्ष्मणेन समन्वितम् रामं कृच्छ्रेण तस्य कौशिकस्य करे ददौ ॥३०॥

तौ गृहीत्वा ततो गच्छन्बलामतिबलां तथा ।
अस्त्राणि च समग्राणि ताभ्यामुपदिदेश सः ॥३१॥
तौ गृहीत्वा ततः गच्छन् बलाम् अतिबलां तथा । अस्त्राणि च समग्राणि ताभ्याम् उपदिदेश सः ॥३१॥
ततः सः तौ गृहीत्वा गच्छन्, बलाम् अतिबलां तथा अस्त्राणि च समग्राणि ताभ्याम् उपदिदेश ॥३१॥
ततः सः तौ गृहीत्वा गच्छन्, बलाम् अतिबलां तथा अस्त्राणि च समग्राणि ताभ्याम् उपदिदेश ॥३१॥

गच्छन् सहानुजो रामः कौशिकेन प्रचोदितः ।
ताटकामवधीद्धीमान् लोकपीडनतत्पराम् ॥३२॥
गच्छन् सह-अनुजः रामः कौशिकेन प्रचोदितः । ताटकाम् अवधीद् धीमान् लोक-पीडन-तत्पराम् ॥३२॥
धीमान् रामः सह-अनुजः गच्छन् कौशिकेन प्रचोदितः ताटकां लोक-पीडन-तत्पराम् अवधीद् ॥३२॥
धीमान् रामः सह-अनुजः गच्छन् कौशिकेन प्रचोदितः ताटकां लोक-पीडन-तत्पराम् अवधीद् ॥३२॥

ततः सिद्धाश्रमं प्राप्य कौशिकः सहराघवः ।
अध्वरं च समारेभे राक्षसाश्च समागमन् ॥३३॥
ततः सिद्धाश्रमं प्राप्य कौशिकः सहराघवः । अध्वरं च समारेभे राक्षसाः च समागमन् ॥३३॥
ततः कौशिकः सहराघवः सिद्धाश्रमं प्राप्य अध्वरं च समारेभे। राक्षसाः च समागमन् ॥३३॥
ततः कौशिकः सहराघवः सिद्धाश्रमं प्राप्य अध्वरं च समारेभे। राक्षसाः च समागमन् ॥३३॥

राघवस्तु ततोऽस्त्रेण क्षिप्त्वा मारीचमर्णवे ।
सुबाहुप्रमुखान् हत्वा यज्ञं चापालयन्मुनेः ॥३४॥
राघवः तु ततः अस्त्रेण क्षिप्त्वा मारीचम् अर्णवे । सुबाहु-प्रमुखान् हत्वा यज्ञं चापालयत् मुनेः ॥३४॥
ततः राघवः तु मारीचम् अस्त्रेण अर्णवे क्षिप्त्वा, सुबाहु-प्रमुखान् हत्वा मुनेः यज्ञं च अपालयत् ॥३४॥
ततः राघवः तु मारीचम् अस्त्रेण अर्णवे क्षिप्त्वा, सुबाहु-प्रमुखान् हत्वा मुनेः यज्ञं च अपालयत् ॥३४॥

कौशिकेन ततो रामो नीयमानः सहानुजः ।
अहल्याशापनिर्मोक्षं कृत्वा सम्प्राप मैथिलम् ॥३५॥
कौशिकेन ततः रामः नीयमानः सह-अनुजः । अहल्या-शाप-निर्मोक्षं कृत्वा सम्प्राप मैथिलम् ॥३५॥
ततः कौशिकेन नीयमानः रामः सह-अनुजः अहल्या-शाप-निर्मोक्षं कृत्वा मैथिलम् सम्प्राप ॥३५॥
ततः कौशिकेन नीयमानः रामः सह-अनुजः अहल्या-शाप-निर्मोक्षं कृत्वा मैथिलम् सम्प्राप ॥३५॥

जनकेनार्चितो रामः कौशिकेन प्रचोदितः ।
सीतानिमित्तमानीतं बभञ्ज धनुरैश्वरम् ॥३६॥
जनकेन अर्चितः रामः कौशिकेन प्रचोदितः । सीता-निमित्त-मानीतं बभञ्ज धनुः ऐश्वरम् ॥३६॥
रामः जनकेन अर्चितः, कौशिकेन प्रचोदितः, सीता-निमित्तम् आनीतं ऐश्वरं धनुः बभञ्ज ॥३६॥
रामः जनकेन अर्चितः, कौशिकेन प्रचोदितः, सीता-निमित्तम् आनीतं ऐश्वरं धनुः बभञ्ज ॥३६॥

ततो दशरथं दूतैरानाय्य मिथिलाधिपः ।
रामादिभ्यस्तत्सुतेभ्यः सीताद्याः कन्यका ददौ ॥३७॥
ततः दशरथं दूतैः आनाय्य मिथिला-अधिपः । रामादिभ्यः तत्सुतेभ्यः सीताद्याः कन्यका ददौ ॥३७॥
ततः मिथिला-अधिपः दशरथं दूतैः आनाय्य तत्सुतेभ्यः रामादिभ्यः सीताद्याः कन्यकाः ददौ ॥३७॥
ततः मिथिला-अधिपः दशरथं दूतैः आनाय्य तत्सुतेभ्यः रामादिभ्यः सीताद्याः कन्यकाः ददौ ॥३७॥

ततो गुरुनियोगेन कृतोद्वाहः सहानुजः ।
राघवो निर्ययौ तेन जनकेनोरुमानितः ॥३८॥
ततः गुरु-नियोगेन कृत-उद्वाहः सह-अनुजः । राघवः निर्ययौ तेन जनकेन उरुमानितः ॥३८॥
ततः गुरु-नियोगेन कृत-उद्वाहः राघवः सह-अनुजः तेन जनकेन उरुमानितः निर्ययौ। ॥३८॥
ततः गुरु-नियोगेन कृत-उद्वाहः राघवः सह-अनुजः तेन जनकेन उरुमानितः निर्ययौ। ॥३८॥

तदाकर्ण्य धनुर्भङ्गमायान्तं रोषभीषणम् ।
विजित्य भार्गवं राममयोध्यां प्राप राघवः ॥३९॥
तद् आकर्ण्य धनुर्भङ्गम् आयान्तं रोषभीषणम् । विजित्य भार्गवं रामम् अयोध्यां प्राप राघवः ॥३९॥
तद् धनुर्भङ्गम् आकर्ण्य आयान्तं रोषभीषणम् भार्गवं रामम् विजित्य राघवः अयोध्यां प्राप ॥३९॥
तद् धनुर्भङ्गम् आकर्ण्य आयान्तं रोषभीषणम् भार्गवं रामम् विजित्य राघवः अयोध्यां प्राप ॥३९॥

ततः सर्वजनानन्दं कुर्वाणश्चेष्टितैः स्वकैः ।
तामध्युवास काकुत्स्थः सीतया सहितः सुखम् ॥४०॥
ततः सर्वजन-आनन्दं कुर्वाणः चेष्टितैः स्वकैः । ताम् अध्युवास काकुत्स्थः सीतया सहितः सुखम् ॥४०॥
ततः स्वकैः चेष्टितैः सर्वजन-आनन्दं कुर्वाणः काकुत्स्थः ताम् (अयोध्यां) सीतया सहितः सुखम् अध्युवास ॥४०॥
ततः स्वकैः चेष्टितैः सर्वजन-आनन्दं कुर्वाणः काकुत्स्थः ताम् (अयोध्यां) सीतया सहितः सुखम् अध्युवास ॥४०॥

॥इति श्रीरामोदन्ते बालकाण्डः समाप्तः ॥

॥ अथ अयोध्याकाण्डः ॥


एतस्मिन्नन्तरे गेहं मातुलस्य युधाजितः ।
प्रययौ भरतः प्रीतः शत्रुघ्नेन समन्वितः ॥१॥
एतस्मिन् अन्तरे गेहं मातुलस्य युधाजितः । प्रययौ भरतः प्रीतः शत्रुघ्नेन समन्वितः ॥१॥
एतस्मिन् अन्तरे भरतः शत्रुघ्नेन समन्वितः प्रीतः मातुलस्य युधाजितः गेहं प्रययौ ॥१॥
एतस्मिन् अन्तरे भरतः शत्रुघ्नेन समन्वितः प्रीतः मातुलस्य युधाजितः गेहं प्रययौ ॥१॥

ततः प्रकृतिभिः साकं मन्त्रयित्वा स भूपतिः ।
अभिषेकाय रामस्य समारेभे मुदान्वितः ॥२॥
ततः प्रकृतिभिः साकं मन्त्रयित्वा सः भूपतिः । अभिषेकाय रामस्य समारेभे मुदान्वितः ॥२॥
ततः स भूपतिः मुदान्वितः प्रकृतिभिः साकं मन्त्रयित्वा रामस्य अभिषेकाय समारेभे ॥२॥
ततः स भूपतिः मुदान्वितः प्रकृतिभिः साकं मन्त्रयित्वा रामस्य अभिषेकाय समारेभे ॥२॥

कैकेयी तु महीपालं मन्थरादूषिताशया ।
वरद्वयं पुरा दत्तं ययाचे सत्यसङ्गरम् ॥३॥
कैकेयी तु महीपालं मन्थरा-दूषित-आशया । वरद्वयं पुरा दत्तं ययाचे सत्य-सङ्गरम् ॥३॥
कैकेयी तु मन्थरा-दूषित-आशया महीपालं सत्य-सङ्गरम् पुरा दत्तं वरद्वयं ययाचे ॥३॥
कैकेयी तु मन्थरा-दूषित-आशया महीपालं सत्य-सङ्गरम् पुरा दत्तं वरद्वयं ययाचे ॥३॥

सत्यसङ्गरः, पुं, (सत्यः सङ्गरः प्रतिज्ञा युद्धं वा यस्य ।) कुबेरः । इति त्रिकाण्डशेषः ॥ अन्याय-
रहितयुद्धञ्च ॥ (ऋषिविशेषः । इति महा-भारतम् । २ । ७ । १५ ॥)

वनवासाय रामस्य राज्याप्त्यै भरतस्य च ।
तस्या वरद्वयं कृच्छ्रमनुजज्ञे महीपतिः ॥४॥
वनवासाय रामस्य राज्य-आप्त्यै भरतस्य च । तस्या वरद्वयं कृच्छ्रम् अनुजज्ञे महीपतिः ॥४॥
रामस्य वनवासाय, भरतस्य च राज्य-आप्त्यै - तस्याः कृच्छ्रं वरद्वयं महीपतिः अनुजज्ञे ॥४॥
रामस्य वनवासाय, भरतस्य च राज्य-आप्त्यै - तस्याः कृच्छ्रं वरद्वयं महीपतिः अनुजज्ञे ॥४॥

रामं तदैव कैकेयी वनवासाय चादिशत् ।
अनुज्ञाप्य गुरून्सर्वान्निर्ययौ च वनाय सः ॥५॥
रामं तदा एव कैकेयी वनवासाय च आदिशत् । अनुज्ञाप्य गुरून् सर्वान् निर्ययौ च वनाय सः ॥५॥
तदा एव कैकेयी रामं वनवासाय च आदिशत् । सः गुरून् सर्वान् अनुज्ञाप्य च वनाय निर्ययौ ॥५॥
तदा एव कैकेयी रामं वनवासाय च आदिशत् । सः गुरून् सर्वान् अनुज्ञाप्य च वनाय निर्ययौ ॥५॥

दृष्ट्वा तं निर्गतं सीता लक्ष्मणश्चानुजग्मतुः ।
सन्त्यज्य स्वगृहान्सर्वे पौराश्चानुययुर्द्रुतम् ॥६॥
दृष्ट्वा तं निर्गतं सीता लक्ष्मणः च अनुजग्मतुः । सन्त्यज्य स्वगृहान् सर्वे पौराः च अनुययुः द्रुतम् ॥६॥
तं निर्गतं दृष्ट्वा सीता लक्ष्मणः च अनुजग्मतुः । सर्वे पौराः च स्वगृहान् सन्त्यज्य द्रुतम् अनुययुः ॥६॥
तं निर्गतं दृष्ट्वा सीता लक्ष्मणः च अनुजग्मतुः । सर्वे पौराः च स्वगृहान् सन्त्यज्य द्रुतम् अनुययुः ॥६॥

वञ्चयित्वा तु तान्पौरान्निद्राणान्निशि राघवः । var - कृशान् पौरान्
वाह्यमानं सुमन्त्रेण रथमारुह्य चागमत् ॥७॥
वञ्चयित्वा तु तान् पौरान् निद्राणान् निशि राघवः । वाह्यमानं सुमन्त्रेण रथम् आरुह्य च अगमत् ॥७॥
राघवः तु निशि तान् पौरान् निद्राणान् वञ्चयित्वा सुमन्त्रेण वाह्यमानं रथम् आरुह्य च अगमत् ॥७॥
राघवः तु निशि तान् पौरान् निद्राणान् वञ्चयित्वा सुमन्त्रेण वाह्यमानं रथम् आरुह्य च अगमत् ॥७॥

श्रिङ्गिबेरपुरं गत्वा गङ्गाकूलेऽथ राघवः ।
गुहेन सत्कृतस्तत्र निशामेकामुवास च ॥८॥
श्रिङ्गिबेर-पुरं गत्वा गङ्गाकूले अथ राघवः । गुहेन सत्कृतः तत्र निशाम् एकाम् उवास च ॥८॥
अथ राघवः गङ्गाकूले श्रिङ्गिबेर-पुरं गत्वा, गुहेन सत्कृतः, तत्र निशाम् एकाम् उवास च ॥८॥
अथ राघवः गङ्गाकूले श्रिङ्गिबेर-पुरं गत्वा, गुहेन सत्कृतः, तत्र निशाम् एकाम् उवास च ॥८॥

सारथिं संनिमन्त्र्यासौ सीतालक्ष्मणसंयुतः ।
गुहेनानीतया नावा सन्ततार च जाह्नवीम् ॥९॥
सारथिं संनिमन्त्र्य असौ सीता-लक्ष्मण-संयुतः । गुहेन आनीतया नावा सन्ततार च जाह्नवीम् ॥९॥
असौ सीता-लक्ष्मण-संयुतः सारथिं संनिमन्त्र्य गुहेन आनीतया नावा जाह्नवीम् च सन्ततार ॥९॥
असौ सीता-लक्ष्मण-संयुतः सारथिं संनिमन्त्र्य गुहेन आनीतया नावा जाह्नवीम् च सन्ततार ॥९॥

भरद्वाजमुनिं प्राप्य तं नत्वा तेन सत्कृतः ।
राघवस्तस्य निर्देशाच्चित्रकूटेऽवसत्सुखम् ॥१०॥
भरद्वाज-मुनिं प्राप्य तं नत्वा तेन सत्कृतः । राघवः तस्य निर्देशात् चित्रकूटे अवसत् सुखम् ॥१०॥
राघवः भरद्वाज-मुनिं प्राप्य, तं नत्वा तेन सत्कृतः, तस्य निर्देशात् चित्रकूटे सुखम् अवसत् ॥१०॥
राघवः भरद्वाज-मुनिं प्राप्य, तं नत्वा तेन सत्कृतः, तस्य निर्देशात् चित्रकूटे सुखम् अवसत् ॥१०॥

अयोध्यां तु ततो गत्वा सुमन्त्रः शोकविह्वलः ।
राज्ञे न्यवेदयत्सर्वं राघवस्य विचेष्टितम् ॥११॥
अयोध्यां तु ततः गत्वा सुमन्त्रः शोक-विह्वलः । राज्ञे न्यवेदयत् सर्वं राघवस्य विचेष्टितम् ॥११॥
ततः सुमन्त्रः तु शोक-विह्वलः अयोध्यां गत्वा राज्ञे सर्वं राघवस्य विचेष्टितं न्यवेदयत् ॥११॥
ततः सुमन्त्रः तु शोक-विह्वलः अयोध्यां गत्वा राज्ञे सर्वं राघवस्य विचेष्टितं न्यवेदयत् ॥११॥

तदाकर्ण्य सुमन्त्रोक्तं राजा दुःखविमूढधीः ।
राम रामेति विलपन्देहं त्यक्त्वा दिवं ययौ ॥१२॥
तद् आकर्ण्य सुमन्त्र-उक्तं राजा दुःख-विमूढधीः । राम राम इति विलपन् देहं त्यक्त्वा दिवं ययौ ॥१२॥
तद् सुमन्त्र-उक्तम् आकर्ण्य दुःख-विमूढ-धीः राजा “राम राम” इति विलपन् देहं त्यक्त्वा दिवं ययौ ॥१२॥
तद् सुमन्त्र-उक्तम् आकर्ण्य दुःख-विमूढ-धीः राजा “राम राम” इति विलपन् देहं त्यक्त्वा दिवं ययौ ॥१२॥

मन्त्रिणस्तु वसिष्ठोक्त्या देहं संरक्ष्य भूपतेः ।
दूतैरानाययन् क्षिप्रं भरतं मातुलालयात् ॥१३॥
मन्त्रिणः तु वसिष्ठ-उक्त्या देहं संरक्ष्य भूपतेः । दूतैः आनाययन् क्षिप्रं भरतं मातुल-आलयात् ॥१३॥
मन्त्रिणः तु वसिष्ठ-उक्त्या भूपतेः देहं संरक्ष्य, क्षिप्रं दूतैः भरतं मातुल-आलयात् आनाययन् ॥१३॥
मन्त्रिणः तु वसिष्ठ-उक्त्या भूपतेः देहं संरक्ष्य, क्षिप्रं दूतैः भरतं मातुल-आलयात् आनाययन् ॥१३॥

भरतस्तु मृतं श्रुत्वा पितरं कैकयीगिरा ।
संस्कारादि चकारास्य यथाविधि सहानुजः ॥१४॥
भरतः तु मृतं श्रुत्वा पितरं कैकयी-गिरा । संस्कारादि चकार अस्य यथाविधि सह-अनुजः ॥१४॥
भरतः तु पितरं कैकयी-गिरा मृतं श्रुत्वा, सह-अनुजः अस्य यथाविधि संस्कारादि चकार ॥१४॥
भरतः तु पितरं कैकयी-गिरा मृतं श्रुत्वा, सह-अनुजः अस्य यथाविधि संस्कारादि चकार ॥१४॥

अमात्यैश्चोद्यमानोऽपि राज्याय भरतस्तदा ।
वनायैव ययौ राममानेतुं नागरैः सह ॥१५॥
अमात्यैः चोद्यमानः अपि राज्याय भरतः तदा । वनाय एव ययौ रामम् आनेतुं नागरैः सह ॥१५॥
तदा भरतः अमात्यैः राज्याय चोद्यमानः अपि रामम् आनेतुं नागरैः सह वनाय एव ययौ ॥१५॥
तदा भरतः अमात्यैः राज्याय चोद्यमानः अपि रामम् आनेतुं नागरैः सह वनाय एव ययौ ॥१५॥

स गत्वा चित्रकूटस्थं रामं चीरजटाधरम् ।
ययाचे रक्षितुं राज्यं वसिष्ठाद्यैर्द्विजैः सह ॥१६॥
सः गत्वा चित्रकूटस्थं रामं चीरजटा-धरम् । ययाचे रक्षितुं राज्यं वसिष्ठाद्यैः द्विजैः सह ॥१६॥
सः वसिष्ठाद्यैः द्विजैः सह गत्वा चित्रकूटस्थं चीरजटा-धरम् रामं राज्यं रक्षितुं ययाचे ॥१६॥
सः वसिष्ठाद्यैः द्विजैः सह गत्वा चित्रकूटस्थं चीरजटा-धरम् रामं राज्यं रक्षितुं ययाचे ॥१६॥

चतुर्दश समा नीत्वा पुनरेष्याम्यहं पुरीम् । (पुनरैष्याम्यहं)
इत्युक्त्वा पादुके दत्त्वा तं रामः प्रत्ययापयत् ॥१७॥
चतुर्दश समा नीत्वा पुनः एष्यामि अहं पुरीम् । इति उक्त्वा पादुके दत्त्वा तं रामः प्रत्ययापयत् ॥१७॥
अहं चतुर्दश समा नीत्वा पुनः पुरीम् एष्यामि । इति उक्त्वा, पादुके दत्त्वा तं रामः प्रत्ययापयत् ॥१७॥

गृहीत्वा पादुके तस्माद्भरतो दीनमानसः ।
नन्दिग्रामे स्थितस्ताभ्यां ररक्ष च वसुन्धराम् ॥१८॥
गृहीत्वा पादुके तस्माद् भरतः दीनमानसः । नन्दिग्रामे स्थितः ताभ्यां ररक्ष च वसुन्धराम् ॥१८॥
दीनमानसः भरतः तस्माद् पादुके गृहीत्वा नन्दिग्रामे स्थितः ताभ्यां वसुन्धरां ररक्ष च ॥१८॥
दीनमानसः भरतः तस्माद् पादुके गृहीत्वा नन्दिग्रामे स्थितः ताभ्यां वसुन्धरां ररक्ष च ॥१८॥

राघवस्तु गिरेस्तस्माद्गत्वाऽत्रिं समवन्दत ।
तत्पत्नी तु तदा सीतां भूषणैः स्वैरभूषयत् ॥१९॥
राघवः तु गिरेः तस्माद् गत्वा अत्रिं समवन्दत । तत्पत्नी तु तदा सीतां भूषणैः स्वैः अभूषयत् ॥१९॥
राघवः तु तस्माद् गिरेः गत्वा अत्रिं समवन्दत । तदा तत्पत्नी तु सीतां स्वैः भूषणैः अभूषयत् ॥१९॥
राघवः तु तस्माद् गिरेः गत्वा अत्रिं समवन्दत । तदा तत्पत्नी तु सीतां स्वैः भूषणैः अभूषयत् ॥१९॥

उषित्वा तु निशामेकामाश्रमे तस्य राघवः ।
विवेश दण्डकारण्यं सीतालक्ष्मणसंयुतः ॥२०॥
उषित्वा तु निशाम् एकाम् आश्रमे तस्य राघवः । विवेश दण्डकारण्यं सीतालक्ष्मण-संयुतः ॥२०॥
राघवः तस्य आश्रमे निशाम् एकाम् उषित्वा तु सीतालक्ष्मण-संयुतः दण्डकारण्यं विवेश ॥२०॥
राघवः तस्य आश्रमे निशाम् एकाम् उषित्वा तु सीतालक्ष्मण-संयुतः दण्डकारण्यं विवेश ॥२०॥

॥इति श्रीरामोदन्ते अयोध्याकाण्डः समाप्तः ॥

॥अथ आरण्यकाण्डः ॥


व्रजन्वनेन काकुत्स्थो विराधं विधिचोदितम् ।
सदारानुजमात्मानं हरन्तमवधीत्तदा ॥१॥
व्रजन् वनेन काकुत्स्थः विराधं विधि-चोदितम् । सदारानुजम् आत्मानं हरन्तम् अवधीत् तदा ॥१॥
काकुत्स्थः वनेन व्रजन् विधि-चोदितं विराधं, सदारानुजम् आत्मानं हरन्तं, तदा अवधीत् ॥१॥
काकुत्स्थः वनेन व्रजन् विधि-चोदितं विराधं, सदारानुजम् आत्मानं हरन्तं, तदा अवधीत् ॥१॥

शरभङ्गाश्रमं प्राप्य स्वर्गतिं तस्य वीक्ष्य सः ।
प्रतिजज्ञे राक्षसानां वधं मुनिभिरर्थितः ॥२॥
शरभङ्ग-आश्रमं प्राप्य स्वर्गतिं तस्य वीक्ष्य सः । प्रतिजज्ञे राक्षसानां वधं मुनिभिः अर्थितः ॥२॥
सः शरभङ्ग-आश्रमं प्राप्य, तस्य स्वर्गतिं वीक्ष्य, मुनिभिः अर्थितः राक्षसानां वधं प्रतिजज्ञे ॥२॥
सः शरभङ्ग-आश्रमं प्राप्य, तस्य स्वर्गतिं वीक्ष्य, मुनिभिः अर्थितः राक्षसानां वधं प्रतिजज्ञे ॥२॥

तस्माद्गत्वा सुतीक्ष्णं च प्रणम्यानेन पूजितः ।
अगस्त्यस्याश्रमं प्राप्य तं ननाम रघूत्तमः ॥३॥
तस्माद् गत्वा सुतीक्ष्णं च प्रणम्य अनेन पूजितः । अगस्त्यस्य आश्रमं प्राप्य तं ननाम रघूत्तमः ॥३॥
तस्माद् सुतीक्ष्णं गत्वा, प्रणम्य च, अनेन पूजितः। रघूत्तमः अगस्त्यस्य आश्रमं प्राप्य तं ननाम ॥३॥
तस्माद् सुतीक्ष्णं गत्वा, प्रणम्य च, अनेन पूजितः। रघूत्तमः अगस्त्यस्य आश्रमं प्राप्य तं ननाम ॥३॥

रामाय वैष्णवं चापमैन्द्रं तूणीयुगं तथा ।
ब्राह्मं चास्त्रं च खड्गं च प्रददौ कुम्भसम्भवः ॥४॥
रामाय वैष्णवं चापम् ऐन्द्रं तूणीयुगं तथा । ब्राह्मं च अस्त्रं च खड्गं च प्रददौ कुम्भ-सम्भवः ॥४॥
कुम्भ-सम्भवः रामाय वैष्णवं चापम्, ऐन्द्रं तूणीयुगं, तथा ब्राह्मं च अस्त्रं च, खड्गं च प्रददौ ॥४॥

कुम्भ-सम्भवः रामाय वैष्णवं चापम्, ऐन्द्रं तूणीयुगं, तथा ब्राह्मं च अस्त्रं च, खड्गं च प्रददौ ॥४॥

ततः स गच्छन्काकुत्स्थः समागम्य जटायुषम् ।
वैदेह्याः पालनायैनं श्रद्धधे पितृवल्लभम् ॥५॥
ततः स गच्छन् काकुत्स्थः समागम्य जटायुषम् । वैदेह्याः पालनाय एनं श्रद्धधे पितृ-वल्लभम् ॥५॥
ततः सः काकुत्स्थः गच्छन्, जटायुषम् समागम्य, वैदेह्याः पालनाय एनं पितृ-वल्लभं श्रद्धधे ॥५॥
ततः सः काकुत्स्थः गच्छन्, जटायुषम् समागम्य, वैदेह्याः पालनाय एनं पितृ-वल्लभं श्रद्धधे ॥५॥

ततः पञ्चवटीं प्राप्य तत्र लक्ष्मणनिर्मिताम् ।
पर्णशालामध्युवास सीतया सहितः सुखम् ॥६॥
ततः पञ्चवटीं प्राप्य तत्र लक्ष्मण-निर्मिताम् । पर्णशालाम् अध्युवास सीतया सहितः सुखम् ॥६॥
ततः पञ्चवटीं प्राप्य, तत्र लक्ष्मण-निर्मितां पर्णशालाम् सीतया सहितः सुखम् अध्युवास ॥६॥
ततः पञ्चवटीं प्राप्य, तत्र लक्ष्मण-निर्मितां पर्णशालाम् सीतया सहितः सुखम् अध्युवास ॥६॥

तत्राभ्येत्यैकदा रामं वव्रे शूर्पणखाऽभिका ।
तन्निरस्ता लक्ष्मणं च वव्रे सोऽपि निराकरोत् ॥७॥
तत्र अभ्येत्य एकदा रामं वव्रे शूर्पणखा अभिका । तन्निरस्ता लक्ष्मणं च वव्रे सः अपि निराकरोत् ॥७॥
तत्र एकदा रामं अभ्येत्य शूर्पणखा अभिका वव्रे । तन्निरस्ता लक्ष्मणं च वव्रे । सः अपि निराकरोत् ॥७॥
तत्र एकदा रामं अभ्येत्य शूर्पणखा अभिका वव्रे । तन्निरस्ता लक्ष्मणं च वव्रे । सः अपि निराकरोत् ॥७॥
अभिकः, त्रि, (अभिकामयते इति अनुकाभिकेति साधुः ।) कामी । कामुकः । इत्यमरः ॥

राममेव ततो वव्रे कामार्ता कामसन्निभम् ।
पुनश्च धिक्कृता तेन सीतामभ्यद्रवद्रुषा ॥८॥
रामम् एव ततः वव्रे कामार्ता काम-सन्निभम् । पुनः च धिक्कृता तेन सीताम् अभ्यद्रवद् रुषा ॥८॥
ततः कामार्ता काम-सन्निभं रामम् एव वव्रे । पुनः च धिक्कृता, तेन रुषा सीताम् अभ्यद्रवद् ॥८॥
ततः कामार्ता काम-सन्निभं रामम् एव वव्रे । पुनः च धिक्कृता, तेन रुषा सीताम् अभ्यद्रवद् ॥८॥

लक्ष्मणेन तदा रोषात्कृत्तश्रवणनासिका ।
सा तु गत्वा जनस्थानं खरायैतन्न्यवेदयत् ॥९॥
लक्ष्मणेन तदा रोषात् कृत्त-श्रवण-नासिका । सा तु गत्वा जनस्थानं खराय एतत् न्यवेदयत् ॥९॥
तदा रोषात् लक्ष्मणेन कृत्त-श्रवण-नासिका सा तु जनस्थानं गत्वा खराय एतत् न्यवेदयत् ॥९॥
तदा रोषात् लक्ष्मणेन कृत्त-श्रवण-नासिका सा तु जनस्थानं गत्वा खराय एतत् न्यवेदयत् ॥९॥

तदाकर्ण्य खरः क्रुद्धो राघवं हन्तुमाययौ ।
दूषणत्रिशिरोमुख्यैर्यातुधानैः समन्वितः ॥१०॥
तद् आकर्ण्य खरः क्रुद्धः राघवं हन्तुम् आययौ । दूषण-त्रिशिरो-मुख्यैः यातुधानैः समन्वितः ॥१०॥
तद् आकर्ण्य क्रुद्धः खरः दूषण-त्रिशिरो-मुख्यैः यातुधानैः समन्वितः राघवं हन्तुम् आययौ ॥१०॥
तद् आकर्ण्य क्रुद्धः खरः दूषण-त्रिशिरो-मुख्यैः यातुधानैः समन्वितः राघवं हन्तुम् आययौ ॥१०॥

तत्क्षणं लक्ष्मणे सीतां निधाय रघुनन्दनः ।
खरं सहानुगं सङ्ख्ये जघानालघुविक्रमः ॥११॥
तत्क्षणं लक्ष्मणे सीतां निधाय रघुनन्दनः । खरं सहानुगं सङ्ख्ये जघान अलघुविक्रमः ॥११॥
रघुनन्दनः अलघुविक्रमः तत्क्षणं लक्ष्मणे सीतां निधाय, खरं सहानुगं सङ्ख्ये जघान ॥११॥
रघुनन्दनः अलघुविक्रमः तत्क्षणं लक्ष्मणे सीतां निधाय खरं सहानुगं सङ्ख्ये जघान ॥११॥

ततः शूर्पणखा गत्वा लङ्कां शोकसमन्विता ।
न्यवेदयद्रावणाय वृत्तान्तं सर्वमादितः ॥१२॥
ततः शूर्पणखा गत्वा लङ्कां शोक-समन्विता । न्यवेदयद् रावणाय वृत्तान्तं सर्वम् आदितः ॥१२॥
ततः शोक-समन्विता शूर्पणखा लङ्कां गत्वा वृत्तान्तं सर्वम् आदितः रावणाय न्यवेदयद् ॥१२॥
ततः शोक-समन्विता शूर्पणखा लङ्कां गत्वा वृत्तान्तं सर्वम् आदितः रावणाय न्यवेदयद् ॥१२॥

तच्छ्रुत्वा रावणः सीतां हर्तुं कृतमतिस्तदा ।
मारीचस्याश्रमं प्राप्य साहाय्ये तमचोदयत् ॥१३॥
तत् श्रुत्वा रावणः सीतां हर्तुं कृतमतिः तदा । मारीचस्य आश्रमं प्राप्य साहाय्ये तम् अचोदयत् ॥१३॥
तत् श्रुत्वा तदा रावणः सीतां हर्तुं कृत-मतिः, मारीचस्य आश्रमं प्राप्य साहाय्ये तम् अचोदयत् ॥१३॥
तत् श्रुत्वा तदा रावणः सीतां हर्तुं कृत-मतिः, मारीचस्य आश्रमं प्राप्य साहाय्ये तम् अचोदयत् ॥१३॥

सोऽपि स्वर्णमृगो भूत्वा सीतायाः प्रमुखेऽचरत् ।
सा तु तं मृगमाहर्तुं भर्तारं समयाचत ॥१४॥
सः अपि स्वर्णमृगः भूत्वा सीतायाः प्रमुखे अचरत् । सा तु तं मृगम् आहर्तुं भर्तारं समयाचत ॥१४॥
सः अपि स्वर्णमृगः भूत्वा सीतायाः प्रमुखे अचरत् । सा तु तं मृगम् आहर्तुं भर्तारं समयाचत ॥१४॥
सः अपि स्वर्णमृगः भूत्वा सीतायाः प्रमुखे अचरत् । सा तु तं मृगम् आहर्तुं भर्तारं समयाचत ॥१४॥

नियुज्य लक्ष्मणं सीतां रक्षितुं रघुनन्दनः ।
अन्वगच्छन्मृगं तूर्णं द्रवन्तं काननान्तरे ॥१५॥
नियुज्य लक्ष्मणं सीतां रक्षितुं रघुनन्दनः । अन्वगच्छत् मृगं तूर्णं द्रवन्तं कानन-अन्तरे ॥१५॥
रघुनन्दनः लक्ष्मणं सीतां रक्षितुं नियुज्य, तूर्णं द्रवन्तं मृगं कानन-अन्तरे अन्वगच्छत् ॥१५॥
रघुनन्दनः लक्ष्मणं सीतां रक्षितुं नियुज्य, तूर्णं द्रवन्तं मृगं कानन-अन्तरे अन्वगच्छत् ॥१५॥

विव्याध च मृगं रामः स निजं रूपमास्थितः ।
हा सीते लक्ष्मणेत्येवं रुदन्प्राणान्समत्यजत् ॥१६॥
विव्याध च मृगं रामः सः निजं रूपम् आस्थितः । हा सीते, लक्ष्मण इति एवं रुदन् प्राणान् समत्यजत् ॥१६॥
रामः च मृगं विव्याध । सः निजं रूपम् आस्थितः । “हा सीते, लक्ष्मण” इति एवं रुदन् प्राणान् समत्यजत् ॥१६॥
रामः च मृगं विव्याध । सः निजं रूपम् आस्थितः । हा सीते, लक्ष्मण इति एवं रुदन् प्राणान् समत्यजत् ॥१६॥

एतदाकर्ण्य वैदेह्या लक्ष्मणश्चोदितो भृशम् ।
तद्रक्षां देवताः प्रार्थ्य प्रययौ राघवान्तिकम् ॥१७॥
एतद् आकर्ण्य वैदेह्या लक्ष्मणः चोदितः भृशम् । तद् रक्षां देवताः प्रार्थ्य प्रययौ राघव-अन्तिकम् ॥१७॥
एतद् आकर्ण्य वैदेह्या लक्ष्मणः भृशं चोदितः, देवताः तद्-रक्षां प्रार्थ्य, राघव-अन्तिकं प्रययौ ॥१७॥
एतद् आकर्ण्य वैदेह्या लक्ष्मणः भृशं चोदितः देवताः तद्-रक्षां प्रार्थ्य राघव-अन्तिकं प्रययौ ॥१७॥

तदन्तरे समासाद्य रावणो यतिरूपधृत् ।
सीतां गृहीत्वा प्रययौ गगनेन मुदाऽन्वितः ॥१८॥
तदन्तरे समासाद्य रावणः यति-रूप-धृत् । सीतां गृहीत्वा प्रययौ गगनेन मुदा-अन्वितः ॥१८॥
तदन्तरे रावणः यति-रूप-धृत् समासाद्य, मुदा-अन्वितः, सीतां गृहीत्वा, गगनेन प्रययौ ॥१८॥
तदन्तरे रावणः यति-रूप-धृत् समासाद्य मुदा-अन्वितः सीतां गृहीत्वा गगनेन प्रययौ ॥१८॥

ततो जटायुरालोक्य नीयमानां तु जानकीम् ।
प्राहरद्रावणं प्राप्य तुण्डपक्षनखैर्भृशम् ॥१९॥
ततः जटायुः आलोक्य नीयमानां तु जानकीम् । प्राहरद् रावणं प्राप्य तुण्ड-पक्ष-नखैः भृशम् ॥१९॥
ततः जटायुः जानकीं नीयमानां तु आलोक्य, रावणं प्राप्य, तुण्ड-पक्ष-नखैः भृशं प्राहरद् ॥१९॥
ततः जटायुः जानकीं नीयमानां तु आलोक्य रावणं प्राप्य तुण्ड-पक्ष-नखैः भृशं प्राहरद् ॥१९॥

छित्त्वैनं चन्द्रहासेन पातयित्वा च भूतले ।
गृहीत्वा रावणः सीतां प्राविशन्निजमन्दिरम् ॥२०॥
छित्त्वा एनं चन्द्रहासेन पातयित्वा च भूतले । गृहीत्वा रावणः सीतां प्राविशत् निजमन्दिरम् ॥२०॥
एनं चन्द्रहासेन छित्त्वा, भूतले च पातयित्वा, रावणः सीतां गृहीत्वा, निजमन्दिरं प्राविशत् ॥२०॥
एनं चन्द्रहासेन छित्त्वा भूतले च पातयित्वा रावणः सीतां गृहीत्वा निजमन्दिरं प्राविशत् ॥२०॥

अशोकवनिकामध्ये संस्थाप्य जनकात्मजाम् ।
रावणो रक्षितुं चैनां नियुयोज निशाचरीः ॥२१॥
अशोक-वनिका-मध्ये संस्थाप्य जनकात्मजाम् । रावणः रक्षितुं च एनां नियुयोज निशाचरीः ॥२१॥
रावणः जनकात्मजाम् अशोक-वनिका-मध्ये संस्थाप्य एनां रक्षितुं च निशाचरीः नियुयोज ॥२१॥
रावणः जनकात्मजाम् अशोक-वनिका-मध्ये संस्थाप्य एनां रक्षितुं च निशाचरीः नियुयोज ॥२१॥

हत्वा रामस्तु मारीचमागच्छन्ननुजेरिताम् ।
वार्त्तामाकर्ण्य दुःखार्तः पर्णशालामुपागमत् ॥२२॥
हत्वा रामः तु मारीचम् आगच्छन् अनुज-ईरिताम् । वार्त्ताम् आकर्ण्य दुःखार्तः पर्णशालाम् उपागमत् ॥२२॥
रामः तु मारीचं हत्वा आगच्छन्, अनुज-ईरितां वार्त्ताम् आकर्ण्य, दुःखार्तः पर्णशालाम् उपागमत् ॥२२॥
रामः तु मारीचं हत्वा आगच्छन्, अनुज-ईरितां वार्त्ताम् आकर्ण्य, दुःखार्तः पर्णशालाम् उपागमत् ॥२२॥

अदृष्ट्वा तत्र वैदेहीं विचिन्वानो वनान्तरे ।
सहानुजो गृध्रराजं छिन्नपक्षं ददर्श सः ॥२३॥
अदृष्ट्वा तत्र वैदेहीं विचिन्वानः वनान्तरे । सहानुजः गृध्रराजं छिन्न-पक्षं ददर्श सः ॥२३॥
तत्र वैदेहीं अदृष्ट्वा वनान्तरे सहानुजः विचिन्वानः सः गृध्रराजं छिन्न-पक्षं ददर्श ॥२३॥
तत्र वैदेहीं अदृष्ट्वा वनान्तरे सहानुजः विचिन्वानः सः गृध्रराजं छिन्न-पक्षं ददर्श ॥२३॥

तेनोक्तां जानकीवार्त्तां श्रुत्वा पश्चान्मृतं च तम् ।
दग्ध्वा सहानुजो रामश्चक्रे तस्योदकक्रियाम् ॥२४॥
तेन उक्तां जानकी-वार्त्तां श्रुत्वा पश्चात् मृतं च तम् । दग्ध्वा सहानुजः रामः चक्रे तस्य उदकक्रियाम् ॥२४॥
तेन उक्तां जानकी-वार्त्तां श्रुत्वा, पश्चात् तं मृतं च दग्ध्वा, सहानुजः रामः तस्य उदकक्रियां चक्रे ॥२४॥
तेन उक्तां जानकी-वार्त्तां श्रुत्वा, पश्चात् तं मृतं च दग्ध्वा, सहानुजः रामः तस्य उदकक्रियां चक्रे ॥२४॥

आत्मनोऽभिभवं पश्चात्कुर्वतीं पथि लक्ष्मणः ।
अयोमुखीं चकाराशु कृत्तश्रवणनासिकाम् ॥२५॥
आत्मनः अभिभवं पश्चात् कुर्वतीं पथि लक्ष्मणः । अयोमुखीं चकार आशु कृत्त-श्रवण-नासिकाम् ॥२५॥
पश्चात् पथि आत्मनः अभिभवं कुर्वतीं अयोमुखीं लक्ष्मणः आशु कृत्त-श्रवण-नासिकां चकार ॥२५॥
पश्चात् पथि आत्मनः अभिभवं कुर्वतीं अयोमुखीं लक्ष्मणः आशु कृत्त-श्रवण-नासिकां चकार ॥२५॥

गृहीतौ तौ कबन्धेन भुजौ तस्य न्यकृन्तताम् ।
ततस्तु याचितौ तेन तद्देहं देहतुश्च तौ ॥२६॥
गृहीतौ तौ कबन्धेन भुजौ तस्य न्यकृन्तताम् । ततः तु याचितौ तेन तद्-देहं देहतुः च तौ ॥२६॥
तौ कबन्धेन गृहीतौ, तस्य भुजौ न्यकृन्तताम् । ततः तु तेन याचितौ तौ तद्-देहं च देहतुः ॥२६॥
तौ कबन्धेन गृहीतौ, तस्य भुजौ न्यकृन्तताम् । ततः तु तेन याचितौ तौ तद्-देहं च देहतुः ॥२६॥

स तु दिव्याकृतिर्भूत्वा रामं सीतोपलब्धये ।
सुग्रीवमृष्यमूकस्थं याहीत्युक्त्वा दिवं ययौ ॥२७॥
सः तु दिव्य-आकृतिः भूत्वा रामं सीता-उपलब्धये । सुग्रीवम् ऋष्य-मूकस्थं याहि इति उक्त्वा दिवं ययौ ॥२७॥
स तु दिव्य-आकृतिः भूत्वा, रामं “सीता-उपलब्धये ऋष्य-मूकस्थं सुग्रीवं याहि” इति उक्त्वा दिवं ययौ ॥२७॥
स तु दिव्य-आकृतिः भूत्वा, रामं “सीता-उपलब्धये ऋष्य-मूकस्थं सुग्रीवं याहि” इति उक्त्वा दिवं ययौ ॥२७॥

ततः प्रीतो रघुश्रेष्ठः शबर्याश्रममभ्ययात् ।
तयाऽभिपूजितः पश्चात्पम्पां प्राप सलक्ष्मणः ॥२८॥
ततः प्रीतः रघुश्रेष्ठः शबरी-आश्रमम् अभ्ययात् । तया अभिपूजितः पश्चात् पम्पां प्राप सलक्ष्मणः ॥२८॥
ततः रघुश्रेष्ठः प्रीतः शबरी-आश्रमम् अभ्ययात् । तया सलक्ष्मणः अभिपूजितः पश्चात् पम्पां प्राप ॥२८॥
ततः रघुश्रेष्ठः प्रीतः शबरी-आश्रमम् अभ्ययात् । तया सलक्ष्मणः अभिपूजितः पश्चात् पम्पां प्राप ॥२८॥

॥इति श्रीरामोदन्ते आरण्यकाण्डः समाप्तः ॥

॥अथ किष्किन्धाकाण्डः ॥


हनूमानथ सुग्रीवनिर्दिष्टो रामलक्ष्मणौ ।
प्राप्य ज्ञात्वा तु वृत्तान्तं तेन तौ समयोजयत् ॥१॥var - श्रुत्वा
हनूमान् अथ सुग्रीव-निर्दिष्टः राम-लक्ष्मणौ । प्राप्य ज्ञात्वा तु वृत्तान्तं तेन तौ समयोजयत् ॥१॥
अथ सुग्रीव-निर्दिष्टः हनूमान् राम-लक्ष्मणौ प्राप्य तु वृत्तान्तं ज्ञात्वा तेन तौ समयोजयत् ॥१॥
अथ सुग्रीव-निर्दिष्टः हनूमान् राम-लक्ष्मणौ प्राप्य तु वृत्तान्तं ज्ञात्वा तेन तौ समयोजयत् ॥१॥


ततो रामस्य वृत्तान्तं सुग्रीवाय निवेद्य सः ।
सख्यं च कारयामास तयोः पावकसन्निधौ ॥२॥
ततः रामस्य वृत्तान्तं सुग्रीवाय निवेद्य सः । सख्यं च कारयामास तयोः पावक-सन्निधौ ॥२॥
ततः सः रामस्य वृत्तान्तं सुग्रीवाय निवेद्य, तयोः पावक-सन्निधौ सख्यं च कारयामास ॥२॥
ततः सः रामस्य वृत्तान्तं सुग्रीवाय निवेद्य, तयोः पावक-सन्निधौ सख्यं च कारयामास ॥२॥

प्रतिजज्ञे तदा रामो हनिष्यामीति वालिनम् ।
दर्शयिष्यामि वैदेहीमित्यन्येन च संश्रुतम् ॥३॥
प्रतिजज्ञे तदा रामः हनिष्यामि इति वालिनम् । दर्शयिष्यामि वैदेहीम् इति अन्येन च संश्रुतम् ॥३॥
तदा रामः प्रतिजज्ञे वालिनम् हनिष्यामि इति; वैदेहीं दर्शयिष्यामि इति अन्येन च संश्रुतम् ॥३॥
तदा रामः प्रतिजज्ञे वालिनम् हनिष्यामि इति; वैदेहीं दर्शयिष्यामि इति अन्येन च संश्रुतम् ॥३॥

सुग्रीवेणाथ रामाय भ्रातृवैरस्य कारणम् ।
निवेदितमशेषं च बलाधिक्यं च तस्य तत् ॥४॥
सुग्रीवेण अथ रामाय भ्रातृ-वैरस्य कारणम् । निवेदितम् अशेषं च बल-आधिक्यं च तस्य तत् ॥४॥
अथ सुग्रीवेण रामाय भ्रातृ-वैरस्य कारणम्, अशेषं च तस्य तत् बल-आधिक्यं च निवेदितम् ॥४॥
अथ सुग्रीवेण रामाय भ्रातृ-वैरस्य कारणम्, अशेषं च तस्य तत् बल-आधिक्यं च निवेदितम् ॥४॥

तत्क्षणं दुन्दुभेः कायं सुग्रीवेण प्रदर्शितम् ।
सुदूरं प्रेषयामास पादाङ्गुष्ठेन राघवः ॥५॥
तत्क्षणं दुन्दुभेः कायं सुग्रीवेण प्रदर्शितम् । सुदूरं प्रेषयामास पाद-अङ्गुष्ठेन राघवः ॥५॥
तत्क्षणं सुग्रीवेण दुन्दुभेः कायं प्रदर्शितम् । राघवः पाद-अङ्गुष्ठेन सुदूरं प्रेषयामास ॥५॥
तत्क्षणं सुग्रीवेण दुन्दुभेः कायं प्रदर्शितम् । राघवः पाद-अङ्गुष्ठेन सुदूरं प्रेषयामास ॥५॥

पुनश्च दर्शितांस्तेन सालान्सप्त रघूत्तमः ।
बाणेनैकेन चिच्छेद सार्धं तस्यानुशङ्कया ॥६॥
पुनः च दर्शितान् तेन सालान् सप्त रघूत्तमः । बाणेन एकेन चिच्छेद सार्धं तस्य अनुशङ्कया ॥६॥
पुनः च रघूत्तमः तेन दर्शितान् सप्त सालान् एकेन बाणेन, सार्धं तस्य अनुशङ्कया चिच्छेद ॥६॥
पुनः च रघूत्तमः तेन दर्शितान् सप्त सालान् एकेन बाणेन, सार्धं तस्य अनुशङ्कया चिच्छेद ॥६॥

किष्किन्धां प्राप्य सुग्रीवस्ततो रामसमन्वितः ।
जगर्जातीव संहृष्टः कोपयन् वानराधिपम् ॥७॥
किष्किन्धां प्राप्य सुग्रीवः ततः राम-समन्वितः । जगर्ज अतीव संहृष्टः कोपयन् वानर-अधिपम् ॥७॥
ततः सुग्रीवः राम-समन्वितः किष्किन्धां प्राप्य अतीव संहृष्टः, वानर-अधिपम् कोपयन् जगर्ज ॥७॥
ततः सुग्रीवः राम-समन्वितः किष्किन्धां प्राप्य अतीव संहृष्टः, वानर-अधिपम् कोपयन् जगर्ज ॥७॥

वाली निष्क्रम्य सुग्रीवं समरेऽपीडयद्भृशम् ।
सोऽपि सम्भग्नसर्वाङ्गः प्राद्रवद्राघवान्तिकम् ॥८॥
वाली निष्क्रम्य सुग्रीवं समरे अपीडयद् भृशम् । सः अपि सम्भग्न-सर्वाङ्गः प्राद्रवद् राघव-अन्तिकम् ॥८॥
वाली निष्क्रम्य, समरे सुग्रीवं भृशम् अपीडयत् । स अपि सम्भग्न-सर्वाङ्गः राघव-अन्तिकम् प्राद्रवद् ॥८॥
वाली निष्क्रम्य, समरे सुग्रीवं भृशम् अपीडयत् । स अपि सम्भग्न-सर्वाङ्गः राघव-अन्तिकम् प्राद्रवद् ॥८॥

कृतचिह्नस्तु रामेण पुनरेव स वालिनम् ।
रणायाह्वयत क्षिप्रं तस्थौ रामस्तिरोहितः ॥९॥
कृतचिह्नः तु रामेण पुनः एव सः वालिनम् । रणाय आह्वयत क्षिप्रं तस्थौ रामः तिरोहितः ॥९॥
पुनः एव रामेण कृतचिह्नः तु सः वालिनम् क्षिप्रं रणाय आह्वयत । रामः तिरोहितः तस्थौ ॥९॥
पुनः एव रामेण कृतचिह्नः तु सः वालिनम् क्षिप्रं रणाय आह्वयत । रामः तिरोहितः तस्थौ ॥९॥

हेममाली ततो वाली तारयाऽभिहितं हितम् ।
निरस्य कुपितो भ्रात्रा रणं चक्रे सुदारुणम् ॥१०॥
हेममाली ततः वाली तारया अभिहितं हितम् । निरस्य कुपितः भ्रात्रा रणं चक्रे सुदारुणम् ॥१०॥
ततः हेममाली वाली तारया अभिहितं हितं निरस्य, कुपितः भ्रात्रा सुदारुणं रणं चक्रे ॥१०॥
ततः हेममाली वाली तारया अभिहितं हितं निरस्य, कुपितः भ्रात्रा सुदारुणं रणं चक्रे ॥१०॥

बाणेन वालिनं रामो विद्ध्वा भूमौ न्यपातयत् ।
सोऽपि राम इति ज्ञात्वा त्यक्त्वा देहं दिवं ययौ ॥११॥
बाणेन वालिनं रामः विद्ध्वा भूमौ न्यपातयत् । सः अपि राम इति ज्ञात्वा त्यक्त्वा देहं दिवं ययौ ॥११॥
रामः वालिनं बाणेन विद्ध्वा भूमौ न्यपातयत् । सः अपि ‘राम’ इति ज्ञात्वा देहं त्यक्त्वा दिवं ययौ ॥११॥
रामः वालिनं बाणेन विद्ध्वा भूमौ न्यपातयत् । सः अपि ‘राम’ इति ज्ञात्वा देहं त्यक्त्वा दिवं ययौ ॥११॥

पश्चात्तपन्तं सुग्रीवं समाश्वास्य रघूत्तमः ।
वानराणामधिपतिं चकाराश्रितवत्सलः ॥१२॥
पश्चात् तपन्तं सुग्रीवं समाश्वास्य रघु-उत्तमः । वानराणाम् अधिपतिं चकार आश्रित-वत्सलः ॥१२॥
पश्चात् रघु-उत्तमः आश्रित-वत्सलः तपन्तं सुग्रीवं समाश्वास्य वानराणाम् अधिपतिं चकार ॥१२॥
पश्चात् रघु-उत्तमः आश्रित-वत्सलः तपन्तं सुग्रीवं समाश्वास्य वानराणाम् अधिपतिं चकार ॥१२॥

ततो माल्यवतः पृष्ठे रामो लक्ष्मणसंयुतः ।
उवास चतुरो मासान्सीताविरहदुःखितः ॥१३॥
ततः माल्यवतः पृष्ठे रामः लक्ष्मण-संयुतः । उवास चतुरः  मासान् सीता-विरह-दुःखितः ॥१३॥
ततः रामः लक्ष्मण-संयुतः माल्यवतः पृष्ठे चतुरः सीता-विरह-दुःखितः मासान् उवास ॥१३॥
ततः रामः लक्ष्मण-संयुतः माल्यवतः पृष्ठे चतुरः सीता-विरह-दुःखितः मासान् उवास ॥१३॥

अथ रामस्य निर्देशाल्लक्ष्मणो वानराधिपम् ।
आनयत्प्लवगैः सार्धं हनूमत्प्रमुखैर्गिरिम् ॥१४॥
अथ रामस्य निर्देशात् लक्ष्मणः वानर-अधिपम् । आनयत् प्लवगैः सार्धं हनूमत्-प्रमुखैः गिरिम् ॥१४॥
अथ लक्ष्मणः रामस्य निर्देशात् प्लवगैः सार्धं हनूमत्-प्रमुखैः वानर-अधिपम् गिरिम् आनयत् ॥१४॥
अथ लक्ष्मणः रामस्य निर्देशात् प्लवगैः सार्धं हनूमत्-प्रमुखैः वानर-अधिपम् गिरिम् आनयत् ॥१४॥

सुग्रीवो राघवं दृष्ट्वा वचनात्तस्य वानरान् ।
न्ययुङ्क्त सीतामन्वेष्टुमाशासु चतसृष्वपि ॥१५॥
सुग्रीवः राघवं दृष्ट्वा वचनात् तस्य वानरान् । न्ययुङ्क्त सीताम् अन्वेष्टुम् आशासु चतसृषु अपि ॥१५॥
सुग्रीवः राघवं दृष्ट्वा वचनात् तस्य वानरान् । न्ययुङ्क्त सीताम् अन्वेष्टुम् आशासु चतसृषु अपि ॥१५॥

ततो हनुमतः पाणौ ददौ रामोऽङ्गुलीयकम् ।
विश्वासाय तु वैदेह्यास्तद्गृहीत्वा स निर्ययौ ॥१६॥
ततः हनुमतः पाणौ ददौ रामः अङ्गुलीयकम् । विश्वासाय तु वैदेह्याः तद्गृहीत्वा स निर्ययौ ॥१६॥
ततः रामः हनुमतः पाणौ अङ्गुलीयकं ददौ । स वैदेह्याः विश्वासाय तु तद्गृहीत्वा निर्ययौ ॥१६॥
ततः रामः वैदेह्याः विश्वासाय हनुमतः पाणौ अङ्गुलीयकं ददौ । स तु तद्गृहीत्वा निर्ययौ ॥१६॥

ततो हनूमत्प्रमुखाः वानरा दक्षिणां दिशम् ।
गत्वा सीतां विचिन्वन्तः पर्वतं विन्ध्यमाप्नुवन् ॥१७॥
ततः हनूमत्-प्रमुखाः वानराः दक्षिणां दिशम् । गत्वा सीतां विचिन्वन्तः पर्वतं विन्ध्यम् आप्नुवन् ॥१७॥
ततः हनूमत्-प्रमुखाः वानरा दक्षिणां दिशम् गत्वा सीतां विचिन्वन्तः पर्वतं विन्ध्यम् आप्नुवन् ॥१७॥
ततः हनूमत्-प्रमुखाः वानरा दक्षिणां दिशम् गत्वा सीतां विचिन्वन्तः पर्वतं विन्ध्यम् आप्नुवन् ॥१७॥

समयातिक्रमात्तत्र चक्रुः प्रायोपवेशनम् ।
तेऽत्र सम्पातिना प्रोक्तां सीतावार्त्तां च शुश्रुवुः ॥१८॥
समय-अतिक्रमात् तत्र चक्रुः प्रायोपवेशनम् । ते अत्र सम्पातिना प्रोक्तां सीतावार्त्तां च शुश्रुवुः ॥१८॥
(ते) तत्र समय-अतिक्रमात् प्रायोपवेशनम् चक्रुः । अत्र ते सम्पातिना प्रोक्तां सीतावार्त्तां च शुश्रुवुः ॥१८॥
(ते) तत्र समय-अतिक्रमात् प्रायोपवेशनम् चक्रुः । अत्र ते सम्पातिना प्रोक्तां सीतावार्त्तां च शुश्रुवुः ॥१८॥

ततः प्रापुरुदन्वन्तमङ्गदाद्याः प्लवङ्गमाः ।
तं विलङ्घयितुं तेषां न कश्चिदभवत्क्षमः ॥१९॥
ततः प्रापुः उदन्वन्तम् अङ्गदाद्याः प्लवङ्गमाः । तं विलङ्घयितुं तेषां न कश्चिद् अभवत् क्षमः ॥१९॥
ततः अङ्गदाद्याः प्लवङ्गमाः उदन्वन्तं प्रापुः । तं विलङ्घयितुं तेषां कश्चिद् क्षमः न अभवत् ॥१९॥
ततः अङ्गदाद्याः प्लवङ्गमाः उदन्वन्तं प्रापुः । तं विलङ्घयितुं तेषां कश्चिद् क्षमः न अभवत् ॥१९॥

स्वप्रभावप्रशंसाभिस्तदा जाम्बवदुक्तिभिः ।
संवर्धितो महेन्द्राद्रिमारुरोहानिलात्मजः ॥२०॥
स्वप्रभाव-प्रशंसाभिः तदा जाम्बवद्-उक्तिभिः । संवर्धितः महेन्द्राद्रिम् आरुरोह अनिलात्मजः ॥२०॥
तदा अनिलात्मजः जाम्बवद्-उक्तिभिः स्वप्रभाव-प्रशंसाभिः संवर्धितः महेन्द्राद्रिम् आरुरोह ॥२०॥
तदा अनिलात्मजः जाम्बवद्-उक्तिभिः स्वप्रभाव-प्रशंसाभिः संवर्धितः महेन्द्राद्रिम् आरुरोह ॥२०॥

॥इति श्रीरामोदन्ते किष्किन्धाकाण्डः समाप्तः ॥

॥अथ सुन्दरकाण्डः ॥


अभिवन्द्याथ सकलानमरान्पवनात्मजः ।
पुप्लुवे च गिरेस्तस्माद्विलङ्घयितुमर्णवम् १॥
अभिवन्द्य अथ सकलान् अमरान् पवन-आत्मजः । पुप्लुवे च गिरेः तस्माद् विलङ्घयितुम् अर्णवम् ॥१॥
अथ पवन-आत्मजः सकलान् अमरान् अभिवन्द्य च तस्माद् गिरेः अर्णवं विलङ्घयितुम् पुप्लुवे ॥१॥
अथ पवन-आत्मजः सकलान् अमरान् अभिवन्द्य च तस्माद् गिरेः अर्णवं विलङ्घयितुम् पुप्लुवे ॥१॥

स समुल्लङ्घ्य मैनाकं सुरसामभिवन्द्य च ।
निहत्य सिंहिकां नीत्या पारं प्राप महोदधेः ॥२॥
सः समुल्लङ्घ्य मैनाकं सुरसाम् अभिवन्द्य च । निहत्य सिंहिकां नीत्या पारं प्राप महोदधेः ॥२॥
सः मैनाकं समुल्लङ्घ्य, सुरसाम् अभिवन्द्य च सिंहिकां नीत्या निहत्य, महोदधेः पारं प्राप ॥२॥
सः मैनाकं समुल्लङ्घ्य, सुरसाम् अभिवन्द्य च सिंहिकां नीत्या निहत्य, महोदधेः पारं प्राप ॥२॥

लङ्काधिदेवतां जित्वा तां प्रविश्यानिलात्मजः ।
सीतां विचिन्वन्नद्राक्षीन्निद्राणं निशि रावणं ॥३॥
लङ्का-अधिदेवतां जित्वा तां प्रविश्य अनिलात्मजः । सीतां विचिन्वन् अद्राक्षीत् निद्राणं निशि रावणं ॥३॥
अनिलात्मजः लङ्का-अधिदेवतां जित्वा, तां प्रविश्य, सीतां विचिन्वन्, निशि निद्राणं रावणम् अद्राक्षीत् ॥३॥

अपश्यंस्तत्र वैदेहीं विचिन्वानस्ततस्ततः ।
अशोकवनिकां गत्वा कां चिदार्तां ददर्श सः ॥४॥var - सीतां खिन्नां
अपश्यन् तत्र वैदेहीं विचिन्वानः ततः ततः । अशोक-वनिकां गत्वा कां चिदार्तां ददर्श सः ॥४॥
तत्र वैदेहीं अपश्यन्, ततः ततः विचिन्वानः, सः अशोक-वनिकां गत्वा कां चिदार्तां ददर्श ॥४॥
तत्र वैदेहीं अपश्यन्, ततः ततः विचिन्वानः, सः अशोक-वनिकां गत्वा कां चिदार्तां ददर्श ॥४॥

पादपं कञ्चिदारुह्य तत्पलाशैः सुसंवृतः ।
आस्ते स्म मारुतिस्तत्र सीतेयमिति तर्कयन् ॥५॥
पादपं कञ्चिद् आरुह्य तत्पलाशैः सुसंवृतः । आस्ते स्म मारुतिः तत्र सीता इयम् इति तर्कयन् ॥५॥
मारुतिः कञ्चिद् पादपम् आरुह्य, तत्पलाशैः सुसंवृतः, तत्र ‘सीता इयम्’ इति तर्कयन् आस्ते स्म ॥५॥
मारुतिः कञ्चिद् पादपम् आरुह्य, तत्पलाशैः सुसंवृतः, तत्र ‘सीता इयम्’ इति तर्कयन् आस्ते स्म ॥५॥

रावणस्तु तदाऽभ्येत्य मैथिलीं मदनार्दितः ।
भार्या भव ममेत्येवं बहुधा समयाचत ॥६॥
रावणः तु तदा अभ्येत्य मैथिलीं मदनार्दितः । भार्या भव मम इति एवं बहुधा समयाचत ॥६॥
तदा रावणः तु मदनार्दितः अभ्येत्य, मैथिलीं ‘भार्या भव मम’ इति एवं बहुधा समयाचत ॥६॥
तदा रावणः तु मदनार्दितः अभ्येत्य, मैथिलीं ‘भार्या भव मम’ इति एवं बहुधा समयाचत ॥६॥

अहं त्वद्वशगा न स्यामित्येषा तं निराकरोत् । var - त्वदनुगा
काममन्युपरीतात्मा रावणोऽपि तदा ययौ ॥७॥
अहं त्वद्वशगा न स्याम् इत्येषा तं निराकरोत् । काम-मन्यु-परीत-आत्मा रावणः अपि तदा ययौ ॥७॥
“अहं त्वद्-वशगा न स्याम्” इत्येषा तं निराकरोत् । काम-मन्यु-परीत-आत्मा रावणः अपि तदा ययौ ॥७॥
“अहं त्वद्-वशगा न स्याम्” इत्येषा तं निराकरोत् । काम-मन्यु-परीत-आत्मा रावणः अपि तदा ययौ ॥७॥

निर्गते रावणे सीतां प्रलपन्तीं स मारुतिः ।
उक्त्वा रामस्य वृत्तान्तं प्रददौ चाङ्गुलीयकम् ॥८॥
निर्गते रावणे सीतां प्रलपन्तीं सः मारुतिः । उक्त्वा रामस्य वृत्तान्तं प्रददौ च अङ्गुलीयकम् ॥८॥
निर्गते रावणे, सः मारुतिः, प्रलपन्तीं सीतां, रामस्य वृत्तान्तं उक्त्वा अङ्गुलीयकं च प्रददौ ॥८॥
निर्गते रावणे, सः मारुतिः, प्रलपन्तीं सीतां, रामस्य वृत्तान्तं उक्त्वा अङ्गुलीयकं च प्रददौ ॥८॥

तत्समादाय वैदेही विलप्य च भृशं पुनः ।
चूडामणिं ददौ तस्य करे जग्राह सोऽपि तम् ॥९॥
तत्समादाय वैदेही विलप्य च भृशं पुनः । चूडामणिं ददौ तस्य करे जग्राह सः अपि तम् ॥९॥
वैदेही तत्समादाय भृशं च विलप्य, पुनः चूडामणिं तस्य करे ददौ । सः अपि तं जग्राह ॥९॥
वैदेही तत्समादाय भृशं च विलप्य, पुनः चूडामणिं तस्य करे ददौ । सः अपि तं जग्राह ॥९॥

मा विषादं कृथा देवि राघवो रावणं रणे ।
हत्वा त्वां नेष्यतीत्येनामाश्वास्य स विनिर्ययौ ॥१०॥
मा विषादं कृथा देवि राघवः रावणं रणे । हत्वा त्वां नेष्यति इति एनाम् आश्वास्य सः विनिर्ययौ ॥१०॥
“देवि, मा विषादं कृथाः। राघवः रावणं रणे हत्वा त्वां नेष्यति।” इति सः एनाम् आश्वास्य विनिर्ययौ ॥१०॥
“देवि, मा विषादं कृथाः। राघवः रावणं रणे हत्वा त्वां नेष्यति।” इति सः एनाम् आश्वास्य विनिर्ययौ ॥१०॥

नीतिमान् सोऽपि सञ्चिन्त्य बभञ्जोपवनं च तत् ।
अक्षादीनि च रक्षांसि बहूनि समरेऽवधीत् ॥११॥
नीतिमान् सः अपि सञ्चिन्त्य बभञ्ज उपवनं च तत् । अक्षादीनि च रक्षांसि बहूनि समरे अवधीत् ॥११॥
सः नीतिमान् अपि सञ्चिन्त्य, उपवनं च तत् बभञ्ज । अक्षादीनि च बहूनि रक्षांसि समरे अवधीत् ॥११॥
सः नीतिमान् अपि सञ्चिन्त्य, उपवनं च तत् बभञ्ज । अक्षादीनि च बहूनि रक्षांसि समरे अवधीत् ॥११॥

ततः शक्रजिता युद्धे बद्धः पवननन्दनः ।
प्रतापं रघुनाथस्य रावणाय न्यवेदयत् ॥१२॥ var - रावणं तं
ततः शक्रजिता युद्धे बद्धः पवन-नन्दनः । प्रतापं रघुनाथस्य रावणाय न्यवेदयत् ॥१२॥
ततः पवन-नन्दनः युद्धे शक्रजिता बद्धः, रघुनाथस्य प्रतापं रावणाय न्यवेदयत् ॥१२॥
ततः पवन-नन्दनः युद्धे शक्रजिता बद्धः, रघुनाथस्य प्रतापं रावणाय न्यवेदयत् ॥१२॥

रक्षोदीपितलाङ्गूलः स तु लङ्कामशेषतः ।
दग्ध्वा सागरमुत्तीर्य वानरान्समुपागमत् ॥१३॥
रक्षो-दीपित-लाङ्गूलः सः तु लङ्काम् अशेषतः । दग्ध्वा सागरम् उत्तीर्य वानरान् समुपागमत् ॥१३॥
स तु रक्षो-दीपित-लाङ्गूलः लङ्काम् अशेषतः दग्ध्वा, सागरम् उत्तीर्य, वानरान् समुपागमत् ॥१३॥
स तु रक्षो-दीपित-लाङ्गूलः लङ्काम् अशेषतः दग्ध्वा, सागरम् उत्तीर्य, वानरान् समुपागमत् ॥१३॥

स गत्वा वानरैः साकं राघवायात्मना कृतम् ।
निवेदयित्वा सकलं ददौ चूडामणिं च तम् ॥१४॥
सः गत्वा वानरैः साकं राघवाय आत्मना कृतम् । निवेदयित्वा सकलं ददौ चूडामणिं च तम् ॥१४॥
स वानरैः साकं गत्वा राघवाय आत्मना कृतं सकलं निवेदयित्वा, चूडामणिं च तम् ददौ ॥१४॥
स वानरैः साकं गत्वा राघवाय आत्मना कृतं सकलं निवेदयित्वा, चूडामणिं च तम् ददौ ॥१४॥

 ॥इति श्रीरामोदन्ते सुन्दरकाण्डः समाप्तः ॥

॥अथ युद्धकाण्डः ॥


अथासङ्ख्यैः कपिगणैः सुग्रीवप्रमुखैः सह ।
निर्ययौ राघवस्तूर्णं तीरं प्राप महोदधेः ॥१॥
अथ असङ्ख्यैः कपिगणैः सुग्रीव-प्रमुखैः सह । निर्ययौ राघवः तूर्णं तीरं प्राप महोदधेः ॥१॥
अथ राघवः असङ्ख्यैः कपिगणैः सुग्रीव-प्रमुखैः सह तूर्णं निर्ययौ । महोदधेः तीरं प्राप ॥१॥
अथ राघवः असङ्ख्यैः कपिगणैः सुग्रीव-प्रमुखैः सह तूर्णं निर्ययौ । महोदधेः तीरं प्राप ॥१॥

तदा विभीषणो भ्रात्रा त्यक्तो राममुपागमत् ।
लङ्काधिपत्येऽभ्यषिञ्चदेनं रामोऽरिमर्दनः ॥२॥
तदा विभीषणः भ्रात्रा त्यक्तः रामम् उपागमत् । लङ्का-अधिपत्ये अभ्यषिञ्चद् एनं रामः अरिमर्दनः ॥२॥
तदा विभीषणः भ्रात्रा त्यक्तः रामम् उपागमत् । रामः अरिमर्दनः एनं लङ्का-अधिपत्ये अभ्यषिञ्चद् ॥२॥
तदा विभीषणः भ्रात्रा त्यक्तः रामम् उपागमत् । रामः अरिमर्दनः एनं लङ्का-अधिपत्ये अभ्यषिञ्चद् ॥२॥

दत्तमार्गः समुद्रेण तत्र सेतुं नलेन सः । var - उक्तमार्गः
कारयित्वा तेन गत्वा सुवेलं प्राप पर्वतम् ॥३॥
दत्तमार्गः समुद्रेण तत्र सेतुं नलेन सः । कारयित्वा तेन गत्वा सुवेलं प्राप पर्वतम् ॥३॥
सः समुद्रेण दत्तमार्गः, तत्र नलेन सेतुं कारयित्वा, तेन गत्वा, सुवेलं पर्वतं प्राप ॥३॥
सः समुद्रेण दत्तमार्गः, तत्र नलेन सेतुं कारयित्वा, तेन गत्वा, सुवेलं पर्वतं प्राप ॥३॥

ततो राघवनिर्दिष्टा नीलमुख्याः प्लवङ्गमाः ।
रुरुधुः सर्वतो लङ्कां वृक्षपाषाणपाणयः ॥४॥
ततः राघव-निर्दिष्टाः नील-मुख्याः प्लवङ्गमाः । रुरुधुः सर्वतः लङ्कां वृक्ष-पाषाण-पाणयः ॥४॥
ततः राघव-निर्दिष्टा नील-मुख्याः प्लवङ्गमाः वृक्ष-पाषाण-पाणयः सर्वतः लङ्कां रुरुधुः ॥४॥
ततः राघव-निर्दिष्टा नील-मुख्याः प्लवङ्गमाः वृक्ष-पाषाण-पाणयः सर्वतः लङ्कां रुरुधुः ॥४॥

रावणस्य नियोगेन निर्गतान्युधि राक्षसान् ।
प्रहस्तप्रमुखान्हत्वा नेदुस्ते सिंहविक्रमाः ॥५॥
रावणस्य नियोगेन निर्गतान् युधि राक्षसान् । प्रहस्त-प्रमुखान् हत्वा नेदुः ते सिंह-विक्रमाः ॥५॥
ते सिंह-विक्रमाः, रावणस्य नियोगेन निर्गतान् प्रहस्त-प्रमुखान् राक्षसान् युधि हत्वा नेदुः ॥५॥
ते सिंह-विक्रमाः, रावणस्य नियोगेन निर्गतान् प्रहस्त-प्रमुखान् राक्षसान् युधि हत्वा नेदुः ॥५॥

सुग्रीवश्च हनूमांश्च तथा राघवलक्ष्मणौ ।
राक्षसान्सुबहून्युद्धे जघ्नुर्भीमपराक्रमाः ॥६॥
सुग्रीवः च हनूमान् च तथा राघव-लक्ष्मणौ । राक्षसान् सुबहून् युद्धे जघ्नुः भीम-पराक्रमाः ॥६॥
सुग्रीवः च हनूमान् च तथा राघव-लक्ष्मणौ भीम-पराक्रमाः सुबहून् राक्षसान् युद्धे जघ्नुः ॥६॥
सुग्रीवः च हनूमान् च तथा राघव-लक्ष्मणौ भीम-पराक्रमाः सुबहून् राक्षसान् युद्धे जघ्नुः ॥६॥

रावणिस्तु तदाऽभ्येत्य समरे रामलक्ष्मणौ । var - तदाऽभेत्य
ननाह नागपाशेन नागारिस्तौ व्यमोचयत् ॥७॥
रावणिः तु तदा अभ्येत्य समरे राम-लक्ष्मणौ । ननाह नागपाशेन नागारिः तौ व्यमोचयत् ॥७॥
तदा रावणिः तु अभ्येत्य समरे राम-लक्ष्मणौ नागपाशेन ननाह । नागारिः तौ व्यमोचयत् ॥७॥
तदा रावणिः तु अभ्येत्य समरे राम-लक्ष्मणौ नागपाशेन ननाह । नागारिः तौ व्यमोचयत् ॥७॥

रावणोऽपि ततो युद्धे राघवेण पराजितः ।
कुम्भकर्णं प्रबोध्याशु रामं हन्तुं न्ययुङ्क्त च ॥८॥
रावणः अपि ततः युद्धे राघवेण पराजितः । कुम्भकर्णं प्रबोध्याशु रामं हन्तुं न्ययुङ्क्त च ॥८॥
ततः रावणः अपि युद्धे राघवेण पराजितः, कुम्भकर्णं आशु प्रबोध्य रामं हन्तुं न्ययुङ्क्त च ॥८॥
ततः रावणः अपि युद्धे राघवेण पराजितः, कुम्भकर्णं आशु प्रबोध्य रामं हन्तुं न्ययुङ्क्त च ॥८॥

रक्षोभिस्सह निर्याय भक्षयन्तं प्लवङ्गमान् ।
सहानुगं कुम्भकर्णं जघानाशु स राघवः ॥९॥
रक्षोभिः सह निर्याय भक्षयन्तं प्लवङ्गमान् । सहानुगं कुम्भकर्णं जघान आशु सः राघवः ॥९॥
स राघवः, रक्षोभिः सह निर्याय प्लवङ्गमान् भक्षयन्तं सहानुगं कुम्भकर्णं, आशु जघान ॥९॥
स राघवः, रक्षोभिः सह निर्याय प्लवङ्गमान् भक्षयन्तं सहानुगं कुम्भकर्णं, आशु जघान ॥९॥

इन्द्रजित्पुनरप्याजौ सानुजं च रघूत्तमम् ।
अमोहयद्वानरांश्च ब्रह्मास्त्रेणास्त्रकोविदः ॥१०॥
इन्द्रजित् पुनः अपि आजौ सानुजं च रघूत्तमम् । अमोहयद् वानरान् च ब्रह्मास्त्रेण अस्त्रकोविदः ॥१०॥
आजौ अस्त्रकोविदः इन्द्रजित् पुनः अपि सानुजं च रघूत्तमम् वानरान् च ब्रह्मास्त्रेण अमोहयद् ॥१०॥
आजौ अस्त्रकोविदः इन्द्रजित् पुनः अपि सानुजं च रघूत्तमम् वानरान् च ब्रह्मास्त्रेण अमोहयद् ॥१०॥

तदैव गत्वा हनुमानानीयौषधिपर्वतम् ।
तान्सर्वान्बोधयित्वाऽऽशु तत्स्थानेऽस्थापयच्च तम् ॥११॥
तदा एव गत्वा हनुमान् आनीय औषधि-पर्वतम् । तान् सर्वान् बोधयित्वा आशु तत्स्थाने अस्थापयत् च तम् ॥११॥
तदा एव हनुमान् गत्वा औषधि-पर्वतम् आनीय तान् सर्वान् बोधयित्वा आशु च तम् तत्स्थाने अस्थापयत् ॥११॥
तदा एव हनुमान् गत्वा, औषधि-पर्वतम् आनीय, तान् सर्वान् बोधयित्वा, आशु च तम् तत्स्थाने अस्थापयत् ॥११॥

ततो निकुम्भिलां गत्वा सौमित्रिः सविभीषणः ।
निषिद्ध्येन्द्रजितो होमं संयुगे तं जघान च ॥१२॥
ततः निकुम्भिलां गत्वा सौमित्रिः सविभीषणः । निषिद्ध्य इन्द्रजितः होमं संयुगे तं जघान च ॥१२॥
ततः सौमित्रिः सविभीषणः निकुम्भिलां गत्वा, इन्द्रजितः होमं निषिद्ध्य, संयुगे तं जघान च ॥१२॥
ततः सौमित्रिः सविभीषणः निकुम्भिलां गत्वा, इन्द्रजितः होमं निषिद्ध्य, संयुगे तं जघान च ॥१२॥

तच्छ्रुत्वा रावणः क्रुद्धो निर्याय शरवृष्टिभिः ।
प्लवङ्गमान्पीडयित्वा रामेण युयुधे भृशं ॥१३॥
तत् श्रुत्वा रावणः क्रुद्धः निर्याय शरवृष्टिभिः । प्लवङ्गमान् पीडयित्वा रामेण युयुधे भृशं ॥१३॥
तत् श्रुत्वा क्रुद्धः रावणः शरवृष्टिभिः निर्याय, प्लवङ्गमान् पीडयित्वा, रामेण भृशं युयुधे ॥१३॥
तत् श्रुत्वा क्रुद्धः रावणः शरवृष्टिभिः निर्याय, प्लवङ्गमान् पीडयित्वा, रामेण भृशं युयुधे ॥१३॥

रामोऽपि सुचिरं तेन कृत्वा युद्धं सुदारुणम् ।
ब्रह्मास्त्रेण जघानैनं ब्रह्मदत्तवरं रिपुम् ॥१४॥
रामः अपि सुचिरं तेन कृत्वा युद्धं सुदारुणम् । ब्रह्मास्त्रेण जघान एनं ब्रह्मदत्तवरं रिपुम् ॥१४॥
रामः अपि तेन सुचिरं सुदारुणं युद्धं कृत्वा, एनं ब्रह्मदत्तवरं रिपुं ब्रह्मास्त्रेण जघान ॥१४॥
रामः अपि तेन सुचिरं सुदारुणं युद्धं कृत्वा, एनं ब्रह्मदत्तवरं रिपुं ब्रह्मास्त्रेण जघान ॥१४॥

तदा शक्रादयो देवा हृष्टा रावणनिग्रहात् ।
रघूत्तमस्योत्तमाङ्गे पुष्पवृष्टिमकुर्वत ॥१५॥
तदा शक्रादयः देवाः हृष्टाः रावण-निग्रहात् । रघु-उत्तमस्य उत्तमाङ्गे पुष्प-वृष्टिम् अकुर्वत ॥१५॥
तदा शक्रादयो देवाः रावण-निग्रहात् हृष्टाः, रघु-उत्तमस्य उत्तमाङ्गे पुष्प-वृष्टिम् अकुर्वत ॥१५॥
तदा शक्रादयो देवाः रावण-निग्रहात् हृष्टाः, रघु-उत्तमस्य उत्तमाङ्गे पुष्प-वृष्टिम् अकुर्वत ॥१५॥

राक्षसानामधिपतिं कृत्वा रामो विभीषणम् ।
अग्निप्रवेशसंशुद्धां परिजग्राह मैथिलीम् ॥१६॥
राक्षसानाम् अधिपतिं कृत्वा रामः विभीषणम् । अग्नि-प्रवेश-संशुद्धां परिजग्राह मैथिलीम् ॥१६॥
रामः विभीषणम् राक्षसानाम् अधिपतिं कृत्वा अग्नि-प्रवेश-संशुद्धां मैथिलीं परिजग्राह ॥१६॥
रामः विभीषणम् राक्षसानाम् अधिपतिं कृत्वा अग्नि-प्रवेश-संशुद्धां मैथिलीं परिजग्राह ॥१६॥

पुरन्दरवरेणाशु जीवयित्वा प्लवङ्गमान् ।
अतोषयद्रघुश्रेष्ठो विविधैर्धनसञ्चयैः ॥१७॥
पुरन्दरवरेण आशु जीवयित्वा प्लवङ्गमान् । अतोषयद् रघुश्रेष्ठः विविधैः धन-सञ्चयैः ॥१७॥
रघुश्रेष्ठः पुरन्दरवरेण आशु जीवयित्वा प्लवङ्गमान् विविधैः धन-सञ्चयैः अतोषयद् ॥१७॥
रघुश्रेष्ठः पुरन्दरवरेण आशु जीवयित्वा प्लवङ्गमान् विविधैः धन-सञ्चयैः अतोषयद् ॥१७॥

ततः पुष्पकमारुह्य ससीतः सहलक्ष्मणः ।
निर्ययौ वानरैस्साकं रामो रक्षोऽधिपेन च ॥१८॥
ततः पुष्पकम् आरुह्य ससीतः सह-लक्ष्मणः । निर्ययौ वानरैः साकं रामः रक्षः अधिपेन च ॥१८॥
ततः रामः ससीतः, सह-लक्ष्मणः, वानरैः साकं, रक्षोधिपेन च पुष्पकम् आरुह्य निर्ययौ ॥१८॥
ततः रामः ससीतः, सह-लक्ष्मणः, वानरैः साकं, रक्षोधिपेन च पुष्पकम् आरुह्य निर्ययौ ॥१८॥

अयोध्यां प्रत्यसौ गच्छन्प्रेषयित्वानिलात्मजम् ।
भरतस्य मतं ज्ञात्वा नन्दिग्राममुपागमत् ॥१९॥
अयोध्यां प्रति असौ गच्छन् प्रेषयित्वा अनिल-आत्मजम् । भरतस्य मतं ज्ञात्वा नन्दि-ग्रामम् उपागमत् ॥१९॥
असौ अयोध्यां प्रति गच्छन्, अनिल-आत्मजम् प्रेषयित्वा, भरतस्य मतं ज्ञात्वा, नन्दि-ग्रामम् उपागमत् ॥१९॥
असौ अयोध्यां प्रति गच्छन्, अनिल-आत्मजम् प्रेषयित्वा, भरतस्य मतं ज्ञात्वा, नन्दि-ग्रामम् उपागमत् ॥१९॥

भ्रातृभिः सह सङ्गम्य वेषं सन्त्यज्य तापसम् ।
अयोध्यां प्राविशद्रामः प्रीतैर्बन्धुजनैस्सह ॥ २०॥
भ्रातृभिः सह सङ्गम्य वेषं सन्त्यज्य तापसम् । अयोध्यां प्राविशद्रामः प्रीतैः बन्धुजनैः सह ॥ २०॥
भ्रातृभिः सह सङ्गम्य वेषं सन्त्यज्य तापसम् । अयोध्यां प्राविशद्रामः प्रीतैः बन्धुजनैः सह ॥ २०॥

वसिष्ठोऽथ द्विजैस्साकं मन्त्रिसामन्तसन्निधौ ।
सीतया सहितं राममभ्यषिञ्चद्यथाविधि ॥२१॥
वसिष्ठः अथ द्विजैः साकं मन्त्रि-सामन्त-सन्निधौ । सीतया सहितं रामम् अभ्यषिञ्चद् यथाविधि ॥२१॥
अथ वसिष्ठः द्विजैः साकं मन्त्रि-सामन्त-सन्निधौ सीतया सहितं रामम् यथाविधि अभ्यषिञ्चद् ॥२१॥
अथ वसिष्ठः द्विजैः साकं मन्त्रि-सामन्त-सन्निधौ सीतया सहितं रामम् यथाविधि अभ्यषिञ्चद् ॥२१॥

आह्लादयञ्जगत्सर्वं पौर्णमास्यां शशी यथा ।
अयोध्यामवसद्रामः सीतया सहितश्चिरम् ॥२२॥
आह्लादयन् जगत्सर्वं पौर्णमास्यां शशी यथा । अयोध्याम् अवसद् रामः सीतया सहितः चिरम् ॥२२॥
पौर्णमास्यां शशी यथा (तथा) जगत्सर्वम् आह्लादयन्, रामः सीतया सहितः अयोध्याम् चिरम् अवसत् ॥२२॥
पौर्णमास्यां शशी यथा (तथा) जगत्सर्वं आह्लादयन्, रामः सीतया सहितः अयोध्याम् चिरम् अवसत् ॥२२॥

॥इति श्रीरामोदन्ते युद्धकाण्डः समाप्तः ॥


॥ अथ उत्तरकाण्डः ॥


राजा पर्यग्रहीदेव भार्यां रावणदूषिताम् ।
इत्यज्ञजनवादेन रामस्तत्याज मैथिलीम् ॥१॥
राजा पर्यग्रहीद् एव भार्यां रावण-दूषिताम् । इति अज्ञ-जन-वादेन रामः तत्याज मैथिलीम् ॥१॥
‘राजा रावण-दूषिताम् भार्यां पर्यग्रहीद् एव’ इति अज्ञ-जन-वादेन रामः मैथिलीम् तत्याज ॥१॥
‘राजा रावण-दूषिताम् भार्यां पर्यग्रहीद् एव’ इति अज्ञ-जन-वादेन रामः मैथिलीम् तत्याज ॥१॥

तद्विदित्वाथ वाल्मीकिरानीयैनां निजाश्रमम् ।
अन्तर्वर्त्नीं समाश्वास्य तत्रैवावासयत्सुखम् ॥२॥
तद् विदित्वा अथ वाल्मीकिः आनीय एनां निज-आश्रमम् । अन्तर्वर्त्नीं समाश्वास्य तत्र एव आवासयत् सुखम् ॥२॥
अथ वाल्मीकिः तद् विदित्वा अन्तर्वर्त्नीं एनां समाश्वास्य निज-आश्रमम् आनीय तत्र एव सुखम् आवासयत् ॥२॥
अथ वाल्मीकिः तद् विदित्वा अन्तर्वर्त्नीं एनां समाश्वास्य निज-आश्रमम् आनीय तत्र एव सुखम् आवासयत् ॥२॥

ऋषिभिः प्रार्थितस्याथ राघवस्य नियोगतः ।
शत्रुघ्नो लवणं युद्धे निहत्यैनानपालयत् ॥३॥
ऋषिभिः प्रार्थितस्य अथ राघवस्य नियोगतः । शत्रुघ्नः लवणं युद्धे निहत्य एनान् अपालयत् ॥३॥
अथ ऋषिभिः प्रार्थितस्य राघवस्य नियोगतः शत्रुघ्नः लवणं युद्धे निहत्य एनान् अपालयत् ॥३॥
अथ ऋषिभिः प्रार्थितस्य राघवस्य नियोगतः शत्रुघ्नः लवणं युद्धे निहत्य एनान् अपालयत् ॥३॥

तपस्यन्तं ततः शूद्रं शम्बूकाख्यं रघूत्तमः ।
हत्वा विप्रस्य कस्यापि मृतं पुत्रमजीवयत् ॥४॥
तपस्यन्तं ततः शूद्रं शम्बूक-आख्यं रघूत्तमः । हत्वा विप्रस्य कस्य अपि मृतं पुत्रम् अजीवयत् ॥४॥
ततः रघूत्तमः तपस्यन्तं शम्बूक-आख्यं शूद्रं हत्वा कस्य अपि विप्रस्य मृतं पुत्रम् अजीवयत् ॥४॥
ततः रघूत्तमः तपस्यन्तं शम्बूक-आख्यं शूद्रं हत्वा कस्य अपि विप्रस्य मृतं पुत्रम् अजीवयत् ॥४॥

रामे हेममयीं पत्नीं कृत्वा यज्ञं वितन्वति ।
आनीय ससुतां सीतां तस्मै प्राचेतसो ददौ ॥५॥
रामे हेममयीं पत्नीं कृत्वा यज्ञं वितन्वति । आनीय ससुतां सीतां तस्मै प्राचेतसः ददौ ॥५॥
रामे हेममयीं पत्नीं कृत्वा यज्ञं वितन्वति, प्राचेतसः ससुतां सीतां आनीय तस्मै ददौ ॥५॥
रामे हेममयीं पत्नीं कृत्वा यज्ञं वितन्वति, प्राचेतसः ससुतां सीतां आनीय तस्मै ददौ ॥५॥

शङ्क्यमाना पुनश्चैवं रामेण जनकात्मजा ।
भूम्या प्रार्थितया दत्तं विवरं प्रविवेश सा ॥६॥
शङ्क्यमाना पुनः च एवं रामेण जनकात्मजा । भूम्या प्रार्थितया दत्तं विवरं प्रविवेश सा ॥६॥
पुनः च एवं रामेण शङ्क्यमाना सा जनकात्मजा, प्रार्थितया भूम्या दत्तं विवरं प्रविवेश ॥६॥
पुनः च एवं रामेण शङ्क्यमाना सा जनकात्मजा, प्रार्थितया भूम्या दत्तं विवरं प्रविवेश ॥६॥


॥इति श्रीरामोदन्ते युद्धकाण्डः समाप्तः ॥

Encoded and proofread by P. P. Narayanaswami swami at mun.ca

Sriramodantam is a highly abridged version of Ramayana believed to be written by Parameshwara Kavi in 15th century. It has been in use as the first text in old Sanskrit curriculum of Kerala for last five centuries. As per this curriculum the students were taught this text
along with Amarakosha and Siddharoopam immediately after they had learnt the Sanskrit alphabets (Varnamala).
-------------------

Tuesday, August 30, 2016

वातपुरनाथाष्टकम् (vAtapuranAthAShTakam)

बालोपयोगिनी संस्कृतसामग्री

॥ वातपुरनाथाष्टकम् ॥

कुन्द-सुमवृन्द-सम-मन्दहसितास्यम्
नन्द-कुलनन्द-भरतुन्दलनकन्दम् ।
पूतनिजगीतलवधूतदुरितं तं
वातपुरनाथ-मिम-मातनु हृदब्जे ॥१॥
नीलतर-जाल-धरभालहरिरम्यं
लोलतरशीलयुतबालजनलीलम् ।
जालनतिशील-मपि पालयितुकामं
वातपुरनाथ-मिम-मातनु हृदब्जे ॥२॥
कंसरणहिंसमिह संसरणजात-
क्लान्तिभरशान्तिकरकान्तिझरवीतम् ।
वातमुखधातुजनिपातभयघातं
वातपुरनाथ-मिम-मातनु हृदब्जे ॥३॥
जातुधुरिपातुकमिहातुरजनंद्राक्
शोकभरमूकमपि तोकमिव पान्तम् ।
भृङ्गरुचिसङ्गरकृदङ्गलतिकं तं
वातपुरनाथ-मिम-मातनु हृदब्जे ॥४॥
पापभवतापभरकोपशमनार्था
श्वासकरभासमृदुहासरुचिरास्यम् ।
रोगचयभोगभयवेगहरमेकम्
वातपुरनाथ-मिम-मातनु हृदब्जे॥५॥
घोषकुलदोषहर वेषमुपयान्तं
पूषशतदूषकविभूषणगणाढ्यम् ।
भुक्तिमपिमुक्तिमतिभक्तिषु ददानं
वातपुरनाथ-मिम-मातनु हृदब्जे ॥६॥
पापक-दुराप-मतितापहर-शोभ
स्वापघनमामतदुमापतिसमेतम
दूनतरदीनसुखदानकृतदीक्षं
वातपुरनाथ-मिम-मातनु हृदब्जे ॥७॥
पादपतदादरणमोदपरिपूर्णं
जीवमुखदेवजनसेवनफलाङ्घ्रिम्
रूक्षभवमोक्षकृतदीक्षनिजवीक्षं
वातपुरनाथ-मिम-मातनु हृदब्जे ॥८॥
भृत्यग
ण-पत्युदित-नुत्युचित-मोदं,
स्पष्टमिद-मष्टक-मदुष्ट-करणार्हम् ।
आदधत-मादरद-मादिलय-शून्यं,
वातपुर-नाथमिम-मातनु हृदब्जे ॥ ९ ॥

इति महामहोपाध्यायेन ब्रह्मश्रीगणपतिशास्त्रिणा विरचितं श्रीवातपुर-नाथाष्टकम् संपूर्णम्॥

(भ्रात्रा रामप्रकाशेन टङ्कितम्)



Wednesday, May 28, 2014

Quiz

In all these months of Ramayana study, we have made a lot of progress in learning the story (and the underlying values conveyed) as such. But we all felt that the learning could be made more enjoyable if we had a Quiz like format with various kinds of questions that tested our knowledge on the sargas covered, at the same time give everyone an opportunity to revisit the sargas again and again to buttress what has been learnt and thus help internalize Ramayana rather than a superficial reading for acquiring only merit. What benefit than acquiring knowledge about how Rama and those who lived in his time were? And that includes Dasharatha, Rama, Lakshmana, Mathara and as well as Kaikeyi - thus pointing to us the narrow minded-ness at the same time the unconditional love that a father can have for a son and also the (blind) infatuation a man might have towards his wife, and also the sweet friendship and love between brothers (and/or siblings is implied). May these questions be of as much fun and enjoyment to the readers of the blog, as much as we all have felt in the past few months. This is an open post with more questions in the pipeline as more sargas are covered. Any suggestions to improve this format would be welcome.

1. Ramayana has how many shlokas, sargas and kAndas?

2. When Kusha and Lava sang Ramayana in a conference of Maharishis what gift did they give the two boys?

3. When Kusha and Lava visited Ayodhya who invited them and in whose presence did they sing Ramayana? 

4. In which desha is Ayodhya located?

5. What are the characteristics of soldiers of Dasharatha’s army?

6. Who said to whom, which context (bonus points for sarga and shloka no.):
तपोमयं तपोराशिं तपोमूर्तिं तपात्मकम्। 
तपसा त्वां सुतप्तेन पश्यामि पुरुषोत्तमम्।।

7. Who said to whom, which context (bonus points for sarga and shloka no.):
एवमुक्त्वा धनुर्मध्ये बध्वा मुष्टिमरिन्दम:। 
ज्याशब्दमकरोत्तीव्रं दिशश्शब्देन नादयन्।।

8. (easy)
कथमप्यमरप्रख्यं सङ्ग्रामाणामकोविदम्। 
बालं मे तनयं ब्रह्मन् नैव दास्यामि पुत्रकम्।।

9.
तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा। 
कथं प्राप्स्याम्यहं कामं बुद्धिरत्रविचार्यताम्।।

10. Who created or is architect of Ayodhya?( Sarga 1.5)

11. What are Badrayii, Mandrayii and Mrigayii compared to? (Sarga 1.6)

12. Like whom King Dasaratha was ruling Ayodhya?

13. How many ministers in Dasaratha's court? and who are they?

14. Who are the two Ritwiks in Dasaratha's court?

15. Who were the 4 sons of Kusha (Son of Prajapati)

16. 
स वने नित्यसंवृद्धो मुनिर्वनचरस्सदा । 
नान्यं जानाति विप्रेन्द्रो नित्यं पित्रनुवर्तनात् ।। 
Who is स referring to? (clue: विप्रेन्द्रो also refers to same person. Clue2: this is before Rama birth)

17. 
दरिद्राय द्विजायाथ हस्ताभरणमुत्तमम्। 
कस्मैचिद्याचमानाय ददौ राघवनन्दन:।। 
Who does राघवनन्दन: refer to in this shloka?

18.
गृहीतास्त्रोऽस्मि भगवन्! दुराधर्षस्सुरैरपि। 
अस्त्राणां त्वहमिच्छामि संहारं मुनिपुङ्गव।।
Who does भगवन्/मुनिपुङ्गव refer to? Who is saying these words (easy)

19. 
अथ शैलसुता राम! त्रिदशानिदमब्रवीत्। 
समन्युरशपत्सर्वान् क्रोधसंरक्तलोचना।|
Who does शैलसुता refer to?
Who is saying this shloka to Rama?
Who are  त्रिदश ? Why are they called so?
What happens when one is engulfed by क्रोध? (easy)
What happened to Taakata when she heard the jyaghosha of rama and became angry?
What happened to Ravana when he heard the killing of Khara, Dooshana and Trishiras in Dandakavana? (clue, partial answer in this shloka - easy)

20: 
तस्यातिथ्येन दुर्वुत्ते लोभमोहविवर्जिता।
मत्सकाशे मुदा युक्ता स्वं वपुर्धारयिष्यसि।|
Who does तस्य refer to here? 
Who does दुर्वुत्ते refer to here?
Who does मत् refer to here?

21: 
A little difficult one. When exactly were the words Mahamuni used to address Vishwamitra for the first time in his life? ( we know he was a kshatriya raja by birth, but later in life, when exactly does Valmiki maharshi use the term Mahamuni to describe Vishwamitra?)
 Clue: When does he face defeat for the first time ever in his life? That's the pointer to the answer
 Sarga with shloka no. would be perfect answer for this

22. How many times is Vishvamitra disturbed in his tapas before he finally achieves Brahmarshi status. What were each of the disturbances?

23. Which were the stories (in brief) enquired by and listened to by Rama and Lakshmana from Vishvamitra ? To continue what were the rivers and/or cities and/or forests crossed in they journey thus?  (Maybe a little difficult - answers found after Rama receives the divine astrAs from Vishvamitra)

24. When does Rama receive the astras from Vishvamitra (In their journey from Ayodhya, they pass through many forests and do many astonishing and difficult deeds - when does the event of actually getting the astras occur ? )

25. Does Rama kill Tataka immediately as he sees her so that they can proceed in the forest further? If yes, references, if no references ? (maybe a little difficult - it is found in sarga 26)

26. What is the rUpa (form) or the features of Tataka the yakshE as seen by the trio of Vishvamitra, Rama and Lakshmana?

27. To continue how did the yakshE Tataka get that Rakshas like form ?

28. Who narrates the story of Vishvamitra to Rama?

29. What is the exit point of Vishvamitra from the story line? Briefly(in a few lines), what were the tasks that were done by Vishvamitra in the big picture of the Ramayana?

30. Which ancestor king of Janaka was given the divine bow of Shiva? (what is the number of kings appearing between that king and Janaka - may be a bit difficult but answer is found during Seeta's marriage related sargas)

31. What were the difficulties faced by Janaka (father of Seeta) before conducting the marriage of Seeta in relation to getting her married as per his condition regarding lifting Shiva's bow? (maybe a little difficult answers in Sarga 66)

32. What were the acts of Rama with relation to pUrana of the great Shaiva bow that led to its breaking?

33. Who were all the purohitas of Dasharatha who had accompanied him to Mithila to conduct Rama's marriage?(another clue for this - answer is found after Rama's marriage)(sorry before Rama's marriage)

34. What is the origin of the word Saagara ?

35. What were the rituals performed by both sides before actually conducting the marriage of Rama and Sita?

36. On which nakashatra was the marriage of Seeta and Rama performed (answer will be complete with the appropriate shloka)

37. What were the exact words of Janaka while doing Kanyadana of Seeta to Rama?

38. What gifts were given to the daughters by Janaka after the marriage ceremony while going to their pati gR^iham?

39. What were the signs/shakuna (seen in nature) by Dasharatha when the marriage party was returning to Ayodhya? What were the meanings of those shakunas?(to make question difficult please provide relevant shlock's)

40. Who were the only people who were awake when ParashurAma made a grand entry to the marriage party? What happened to the others (please give the accurate Sanskrit word for this)

41. What is the reply given by dAsharathi rAma to parashurAma when he is called to pUraNa the Vaishnava bow?(does he give any reply at all? or does he show him without words as rAma is known to walk the talk )

42. Who said this to whom? 
परित्यक्ता वसिष्ठेन किमहं सुमहात्मना । 
या ऽहं राजभटैर्दीना ह्रियेयं भृशदुःखिता ।। (who is unhappy here? Who is rejected by Vasishta here? please give context)

43. What are some of the (would be perfect if all ) qualities of rAma ?

44. A question to continue the above - 
what was the nature/mood of rAma most of the time (nityam) ? 
what would his reaction be to harsh or unpleasant words spoken by others?how would he feel if someone did him some upakAra?
how would he react if someone did him some apakAra?
what were the nature of his words? 
what was his reaction to (opinion about) his own strength?
with what sort of people would he mingle usually?
what was his nature towards the wretched/dInas?
what was his stand on anger?
for what did he have high regard for?
what was his take on gossip/crosstalk/controversies?
what was the nature of his logic to convince someone?
what was his knowledge on current affairs?
how was he to the kingdom? (if the kingdom is considered to be a person then which aspect of that person was rAma like?
was he literate? What all did he know?
what was his behavior towards elders/vR^iddhas?
what was the nature of his anger and/or happiness?
what was his nature when it came to weaknesses?
who was he comparable to in intellect?
who was he comparable to in strength?
how was he towards the citizens?

45. Who's (lady) example does Seeta give when she tries to convince rAma to take her to the forest? (who is her husband?)

46. List some of the items give by rAma to suya~JNa? What were specifically given as wanted by Seeta?

47. Who is suyajnya?

48. What all does Lakshmana say he will  do when he tries to convince rAma to take him along, to the forest?

49. Who said this to whom? What is the meaning? What context?
स्वर्गो धनं वा धान्यं वा विद्या: पुत्रा: सुखानि च । 
गुरुवृत्त्यनुरोधेन न किञ्चिदपि दुर्ल्लभम् ।।

50. What does Seeta threaten to do if rAma leaves her and goes to forest?

51. What are some of the bird's eye view of the forest (difficulties) as given by rAma to Seeta to dissuade her from following him?(clue - 10 shlokas in total describe this)(sorry add 6 more to that - 16 shlokas in total)

52. In what manner does Kausalya give leave to her son to leave to the forest? (any more clues will make this too easy, yet this is one among the shlock's given while beginning or ending the parayana of ramayana )

52. A little extrapolation of previous question - why does Kausalya say the above words? (Why does Rama ask her to say these words?)There are no shlokas to give the intention but from our perception/interpretation

53. Who says this to whom? What is context? What is meaning of shloka?
विक्लवो वीर्यहीनो य: स दैवमनुवर्त्तते । 
वीरा: सम्भावितात्मानो न दैवं पर्युपासते ।।

54. What are the shlokas that capture rAma's bhava about going to forest, and that whole scene? (clue sarga 22)

55. What are the examples given by rAma to elucidate the piturvAkya paripalana?(given to Kausalya)

56. What is the shloka that illustrates to the highest extent the sadness/unhappiness of Kausalya about rAma going to forest? What does she prefer instead?

57. What were the last words spoken by rAma before he left his father and mother Kaikeyi in the krodhAgara?

58. What were the last deeds/acts done by rAma before he left his father and mother Kaikeyi (there are 4 things he did, what are they? No need of shloka if the answer has what was done that would make it complete)

59. Where is the phrase chatura ramah use? Why is he called chatura?

60. How many times does Manthara "counsel" Kaikeyi before she finally sees her perspective (this is a bit vague question, but if one reads the sargas related to this, one will know that Kaikeyi wasn't evil from the beginning - there are 'n' number of back and forth talks between them before she takes the evil turn. What is that number 'n'? Sounds like a Engg viva question from textbook, but this is a good way to study through the relevant shlokas again and again)

61. Who said this to whom? (in what context? )
हन्त शीघ्रमितो गत्वा द्रक्ष्यामि च महीपतिम् । 
सह त्वं परिवारेण सुखमास्व रमस्व च ।।

62. Where are these famous phrases used ? कौसल्या सुप्रजा राम ? (please give at least 2 places)

Wednesday, April 2, 2014

संज्ञापरिचयः



 संज्ञा
अष्टाध्याय्यां विहिताः संज्ञाः त्रिधा विभक्तुं शक्ताः -
            
1.  अन्वर्थसंज्ञाः
2.  कृत्रिमसंज्ञाः
3.  परम्परागतसंज्ञाश्चेति।

1.  अन्वर्थसंज्ञाः – पाणिनीये या महत्संज्ञा वर्तते सा अन्वर्थसंज्ञा भवति, महत्संज्ञायाः प्रयोजनमन्वर्थत्वमिति भाष्ये उक्तत्वात्। अर्थमनुसृत्य या संज्ञा भवति सा अन्वर्थसंज्ञा। यथा – सर्वनाम, इत्, षट्, संख्या इत्यादयः।
2.  कृत्रिमसंज्ञा – या संज्ञा पणिनिना कल्पिता , अन्वर्थता च न भवति सा कृत्रिमसंज्ञा। यथा – टि, घु, घि, घ, भ इत्यादि।
3.  परम्परागतसंज्ञा – व्याकरणशास्त्रे कतिपयसंज्ञाः परम्परागताः, तास्तथैव पाणिनिना स्वीकृताः। यथा – सर्वनामस्थान, सार्वधातुक, आर्धधातुक,  प्रातिपदिक, पद, अङ्ग, इत्यादि।

अन्यथापि विभागं कुर्वन्ति द्विधा – 1. शब्दसंज्ञाः, 2. अर्थसंज्ञा इति।

1.  शब्दसंज्ञाः – ये संज्ञाः शब्दानां भवन्ति ताः शब्दसंज्ञाः। यथा – सर्वादीनि सर्वनामानि 1-1-26, उपसर्गाः क्रियायोग 1-4-59, स्वरादिनिपातमव्ययम् 1-1-36 इत्यादयः। अत्र सर्वादिगणे विद्यमानानां शब्दानां भवति।
2.  अर्थसंज्ञाः – कारकसंज्ञाः अर्थसंज्ञाः भवन्ति, विशिष्टार्थानामेव विहितत्वात्। यथा – कर्तुरीप्सिततमम् कर्म 1-4-49, कर्मणा यमभिप्रैति स सम्प्रदानम् 1-4-32, इत्यादि। अत्र संज्ञा न शब्दस्य विधीयते अपि च अर्थस्य विधीयते, अतः एते अर्थसंज्ञाः।