Saturday, August 31, 2013

01 Balakanda 003 Sarga बालकाण्डः ०३ सर्गः

श्रुत्वा वस्तु समग्रं तद्धर्मात्मा धर्मसंहितम् ।
व्यक्तमन्वेषते भूयो यद्वृत्तं तस्य धीमतः ।। 1.3.1 ।। 
श्रुत्वा
वस्तु 
समग्रं 
तद्धर्मात्मा- तत् धर्मात्मा( जश्त्व सन्धि:)
धर्मसंहितम्
व्यक्तमन्वेषते- व्यक्तम् अन्वेषते
भूयो - भूय:
यद्वृत्तं - यत् वृत्तं
तस्य 
धीमतः 

उपस्पृश्योदकं सम्यङ्मुनिः स्थित्वा कृताञ्जलिः ।
प्राचीनाग्रेषु दर्भेषु धर्मेणान्वेषते गतिम् ।। 1.3.2 ।। 
उपस्पृश्योदकं- उपस्पृश्य उदकम्
सम्यङ्मुनिः- सम्यक् मुनि:
स्थित्वा- स्था+ क्त्वा
कृताञ्जलिः
प्राचीनाग्रेषु -
दर्भेषु 
धर्मेणान्वेषत - धर्मेण अन्वेषते(सवर्ण दीर्घ सन्धि:)
गतिम् 

रामलक्ष्मणसीताभी राज्ञा दशरथेन च ।
सभार्येण सराष्ट्रेण यत् प्राप्तं तत्र तत्त्वतः ।। 1.3.3 ।।
रामलक्ष्मणसीताभिः
राज्ञा
दशरथेन

सभार्येण
सराष्ट्रेण 
यत् 
प्राप्तं 
तत्र 
तत्त्वतः 


हसितं भाषितं चैव गतिर्या यच्च चेष्टितम् ।
तत्सर्वं धर्मवीर्येण यथावत् सम्प्रपश्यति ।। 1.3.4 ।। 
हसितं
भाषितं 
चैवं-च एव
गतिर्या 
यच्च-यत् च
चेष्टितम् -
तत्सर्वं 
धर्मवीर्येण 
यथावत् 
सम्प्रपश्यति- सम्यक् प्रपश्यति

स्त्रीतृतीयेन च तथा यत्प्राप्तं चरता वने ।
सत्यसन्धेन रामेण तत्सर्वं चान्ववेक्षितम् ।। 1.3.5 ।। 
स्त्रीतृतीयेन
च 
तथा 
यत्प्राप्तं- यत्  प्राप्तं
चरता 
वने
सत्यसन्धेन
रामेण 
तत्सर्वं -तत् सर्वं
चान्ववेक्षितम्- च अन्ववेक्षितम्(सवर्ण दीर्घ सन्धि:)

 
ततः पश्यति धर्मात्मा तत्सर्वं योगमास्थितः ।
पुरा यत्तत्र निर्वृत्तं पाणावामलकं यथा ।। 1.3.6 ।। 
ततः 
पश्यति 
धर्मात्मा = धर्मं आत्मा यस्य स:
तत्सर्वं-तत् सर्वं
योगमास्थितः -योगम् आस्थित:(अनुस्वार सन्धि:)
पुरा 
यत्तत्र- यत् तत्र
निर्वृत्तं- निषेशेन वृत्त्ं
पाणावामलकं 
यथा 

तत्सर्वं तत्त्वतो दृष्ट्वा धर्मेण स महाद्युतिः ।
अभिरामस्य रामस्य चरितं कर्त्तुमुद्यतः ।। 1.3.7 ।। 
तत्सर्वं- तत् सर्वं
तत्त्वतो
दृष्ट्वा 
धर्मेण 
स-स:
महाद्युतिः
अभिरामस्य
रामस्य 
चरितं 
कर्त्तुमुद्यतः

कामार्थगुणसंयुक्तं धर्मार्थगुणविस्तरम् ।
समुद्रमिव रत्नाढ्यं सर्वश्रुतिमनोहरम् ।। 1.3.8 ।। 
कामार्थगुणसंयुक्तं
धर्मार्थगुणविस्तरम्
समुद्रमिव-समुद्रम् इव
रत्नाढ्यं
सर्वश्रुतिमनोहरम् 

स यथा कथितं पूर्वं नारदेन महर्षिणा ।
रघुवंशस्य चरितं चकार भगवानृषिः ।। 1.3.9 ।। 
स-स:
यथा 
कथितं 
पूर्वं
नारदेन
महर्षिणा
रघुवंशस्य
चरितं 
चकार 
भगवानृषिः- भगवान् ऋषि: 

जन्म रामस्य सुमहद्वीर्यं सर्वानुकूलताम् ।
लोकस्य प्रियतां क्षान्तिं सौम्यतां सत्यशीलताम् ।। 1.3.10 ।। 
जन्म
रामस्य
सुमहद्वीर्यं
सर्वानुकूलताम्- सर्व अनुकूलताम्
लोकस्य 
प्रियतां 
क्षान्तिं 
सौम्यतां 
सत्यशीलताम् 
 
नानाचित्रकथाश्चान्या विश्वामित्रसमागमे ।
जानक्याश्च विवाहं च धनुषश्च विभेदनम् ।। 1.3.11 ।। 
नानाचित्रकथाश्चान्या- चित्रकथा: च अन्या:
विश्वामित्रसमागमे  
जानक्याश्च -जानक्या: च
विवाहं 
च 
धनुषश्च-धनुष: च
विभेदनम् 
 
रामरामविवादं च गुणान् दाशरथेस्तथा ।
तथाभिषेकं रामस्य कैकेय्या दुष्टभावताम् ।। 1.3.12 ।।

रामरामविवादं 
च 
गुणान् 
दाशरथेस्तथा- दशरथे: तथा
तथाभिषेकं- तथा अभिषेकं
रामस्य 
कैकेय्या-कैकेय्या:
दुष्टभावताम् 

विघातं चाभिषेकस्य रामस्य च विवासनम् ।
राज्ञः शोकविलापं च परलोकस्य चाश्रयम् ।। 1.3.13 ।। 
विघातं
चाभिषेकस्य- च अभिषेकस्य
रामस्य 
च 
विवासनम्
राज्ञः 
शोकविलापं 
परलोकस्य
चाश्रयम्-च आश्रयम्

प्रकृतीनां विषादं च प्रकृतीनां विसर्जनम् ।
निषादाधिपसंवादं सूतोपावर्तनं तथा ।। 1.3.14 ।। 
प्रकृतीनां 
विषादं 
प्ररकृतीनां
विसर्जनम्
निषादाधिपसंवादं 
सूतोपावर्तनं 
तथा 

गङ्गायाश्चापि सन्तारं भरद्वाजस्य दर्शनम् ।
भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्य दर्शनम् ।। 1.3.15 ।।

गङ्गायाश्चापि-गङ्गाया: च अपि
सन्तारं 
भरद्वाजस्य
दर्शनम्
भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्य -
भरद्वाजाभि अनज्ञानात् चित्रकूटस्य
दर्शनम्

वास्तुकर्म विवेशं च भरतागमनं तथा ।
प्रसादनं च रामस्य पितुश्च सलिलक्रियाम् ।। 1.3.16 ।।
वास्तुकर्म
विवेशं 
भरतागमनं- भरतस्य आगमनं
तथा
प्रसादनं 
च 
रामस्य 
पितुश्च -पितु: च
सलिलक्रियाम्

पादुकाग्र्याभिषेकं च नन्दिग्रामनिवासनम् ।
दण्डकारण्यगमनं विराधस्य वधं तथा ।। 1.3.17 ।। 
पादुकाग्र्याभिषेकं
नन्दिग्रामनिवासनम्
दण्डकारण्यगमनं 
विराधस्य 
वधं 
तथा
 
दर्शनं शरभङ्गस्य सुतीक्ष्णेनाभिसङ्गमम् ।
अनसूयासहास्यामप्यङ्गरागस्य चार्पणम् ।। 1.3.18 ।।
दर्शनं 
शरभङ्गस्य 
सुतीक्ष्णेनाभिसङ्गमम्
अनसूयासहास्यामप्यङ्गरागस्य -
अनसूयासहास्याम् अपि अङ्गरागस्य
चार्पणम् -च अर्पणम्

 
अगस्त्यदर्शनं चैव शूर्पणख्याश्च दर्शनम् ।
शूर्पणख्याश्च संवादं विरूपकरणं तथा ।। 1.3.19 ।। 
अगस्त्यदर्शनं
चैव-च एव
शूर्पणख्याश्च- शूर्पणख्या: च
दर्शनम्
शूर्पणख्याश्च-
शूर्पणख्या: च
संवादं 
विरूपकरणं 
तथा 
 
वधं खरत्रिशिरसोरुत्थानं रावणस्य च ।। 1.3.20 ।। 
वधं 
खरत्रिशिरसोरुत्थानं-खरत्रिशिरसो: उत्थानं
रावणस्य 
च 
 
मारीचस्य वधं चैव वैदेह्या हरणं तथा ।
राघवस्य विलापं च गृध्रराजनिबर्हणम् ।। 1.3.21 ।। 
मारीचस्य 
वधं 
चैव-च एव
वैदेह्या -वैदेह्या:
हरणं 
तथा
राघवस्य 
विलापं 
च 
गृध्रराजनिबर्हणम्-गृध्रराजस्य निबर्हणम्
 
कबन्धदर्शनं चापि पम्पायाश्चापि दर्शनम् ।
शबर्या दर्शनं चैव हनूमद्दर्शनं तथा ।
विलापं चैव पम्पायां राघवस्य महात्मनः ।। 1.3.22 ।। 
कबन्धदर्शनं
चापि -च अपि
पम्पायाश्चापि- पम्पाया: च अपि
दर्शनम्
शबर्या 
दर्शनं
चैव-च एव
हनूमद्दर्शनं 
तथा
विलापं
चैव-च एव
पम्पायां 
राघवस्य
महात्मनः 

ऋश्यमूकस्य गमनं सुग्रीवेण समागमम् । 
प्रत्ययोत्पादनं सख्यं वालिसुग्रीवविग्रहम् ।। 1.3.23 ।।
ऋश्यमूकस्य
गमनं
सुग्रीवेण
समागमम्
प्रत्ययोत्पादनं -प्रत्यय उत्पादनं
सख्यं 
वालिसुग्रीवविग्रहम् 

वालिप्रमथनं चैव सुग्रीवप्रतिपादनम् ।
ताराविलापं समयं वर्षरात्रनिवासनम् ।। 1.3.24 ।। 
वालिप्रमथनं 
चैव-च एव
सुग्रीवप्रतिपादनम्
ताराविलापं 
समयं 
वर्षरात्रनिवासनम्  
 
कोपं राघवसिंहस्य बलानामुपसङ्ग्रहम् ।
दिशः प्रस्थापनं चैव पृथिव्याश्च निवेदनम् ।। 1.3.25 ।। 
कोपं 
राघवसिंहस्य
बलानामुपसङ्ग्रहम् -बलानाम् उपसङ्ग्रहम्(अनुस्वार सन्धि:)
दिशः
प्रस्थापनं
चैव -च एव
पृथिव्याश्च-पृथिव्या: च
निवेदनम् 

अङ्गुलीयकदानं च ऋक्षस्य बिलदर्शनम् ।
प्रायोपवेशनं चैव सम्पातेश्चैव दर्शनम् ।। 1.3.26 ।। 
अङ्गुलीयकदानं
च 
ऋक्षस्य 
बिलदर्शनम्
प्रायोपवेशनं
चैव -च एव
सम्पातेश्चैव-सम्पते: च एव
दर्शनम्
 
पर्वतारोहणं चैव सागरस्य च लङ्घनम् ।
समुद्रवचनाच्चैव मैनाकस्य च दर्शनम् ।। 1.3.27 ।। 
पर्वतारोहणं 
चैव-च एव
सागरस्य 
च 
लङ्घनम्
समुद्रवचनाच्चैव -
समुद्रवचनात् च एव
मैनाकस्य 
च 
दर्शनम्

सिंहिकायाश्च निधनं लङ्कामलयदर्शनम् ।
रात्रौ लङ्काप्रवेशं च एकस्य च विचिन्तनम् ।। 1.3.28 ।। 
सिंहिकायाश्च-  सिंहिकाया: च  
निधनं 
लङ्कामलयदर्शनम्-लङ्काम् अलय दर्शनम्
रात्रौ 
लङ्काप्रवेशं
च 
एकस्य 
विचिन्तनम्


आपानभूमिगमनमवरोधस्य दर्शनम् ।
दर्शनं रावणस्यापि पुष्पकस्य च दर्शनम् ।। 1.3.29 ।। 
आपानभूमिगमनमवरोधस्य-आपानभूमिगमनम् अवरोधस्य
दर्शनम्
दर्शनं
रावणस्यापि -रावणस्य अपि
पुष्पकस्य 
च 
दर्शनम् 
 
अशोकवनिकायानं सीतायाश्चैव दर्शनम् ।
अभिज्ञानप्रदानं च सीतायाश्चाभिभाषणम् ।। 1.3.30 ।। 
अशोकवनिकायानं 
सीतायाश्चैव-सीताया: च एव
दर्शनम्
अभिज्ञानप्रदानं 
च 
सीतायाश्चाभिभाषणम् -सीताया: च भिभाषणम्
 
राक्षसीतर्जनं चैव त्रिजटास्वप्नदर्शनम् ।
मणिप्रदानं सीताया वृक्षभङ्गं तथैव च ।। 1.3.31 ।। 
राक्षसीतर्जनं
चैव-च एव
त्रिजटास्वप्नदर्शनम्
मणिप्रदानं 
सीताया- सीताया:
वृक्षभङ्गं 
तथैव-तथा एव च
 
राक्षसीविद्रवं चैव किङ्कराणां निबर्हणम् ।
ग्रहणं वायुसूनोश्च लङ्कादाहाभिगर्जनम् ।। 1.3.32 ।। 
राक्षसीविद्रवं 
चैव-च एव
किङ्कराणां
निबर्हणम्
ग्रहणं 
वायुसूनोश्च -वायुसूनो: च
लङ्कादाहाभिगर्जनम्-लङ्कात् आहाभिगर्जनम्

प्रतिप्लवनमेवाथ मधूनां हरणं तथा ।
राघवाश्वासनं चैव मणिनिर्यातनं तथा ।। 1.3.33 ।। 
प्रतिप्लवनमेवाथ-प्रतिप्लवनम् एव अथ
मधूनां
हरणं
तथा
राघवाश्वासनं 
चैव -च एव
मणिनिर्यातनं 
तथा
 
सङ्गमं च समुद्रेण नलसेतोश्च बन्धनम् ।
प्रतारं च समुद्रस्य रात्रौ लङ्कावरोधनम् ।। 1.3.34 ।। 
सङ्गमं 
च 
समुद्रेण 
नलसेतोश्च-नलसेतो: च
बन्धनम्
प्रतारं 
च 
समुद्रस्य 
रात्रौ 
लङ्कावरोधनम् -लङ्कस्य अवरोधनम् 

विभीषणेन संसर्गं वधोपायनिवेदनम् ।
कुम्भकर्णस्य निधनं मेघनादनिबर्हणम् ।। 1.3.35 ।।
विभीषणेन
संसर्गं 
वधोपायनिवेदनम् -वध उपाय निवेदनम्
कुम्भकर्णस्य
निधनं 
मेघनादनिबर्हणम्- मेघनादस्य निबर्हणम्

रावणस्य विनाशं च सीतावाप्तिमरेः पुरे ।
विभीषणाभिषेकं च पुष्पकस्य च दर्शनम् ।। 1.3.36 ।। 
रावणस्य
विनाशं
च 
सीतावाप्तिमरेः 
पुरे
विभीषणाभिषेकं-
विभीषणस्य अभिषेकं
च 
पुष्पकस्य
च 
दर्शनम् 

अयोध्यायाश्च गमनं भरतेन समागमम् ।
रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम् ।
स्वराष्ट्ररञ्जनं चैव वैदेह्याश्च विसर्जनम् ।। 1.3.37 ।। 
अयोध्यायाश्च-अयोध्याया: च
गमनं 
भरतेन
समागमम्
रामाभिषेकाभ्युदयं 
सर्वसैन्यविसर्जनम्
स्वराष्ट्ररञ्जनं 
चैव-च एव
वैदेह्याश्च -वैदेह्या: च
विसर्जनम्

अनागतं च यत्किञ्चिद्रामस्य वसुधातले ।
तच्चकारोत्तरे काव्ये वाल्मीकिर्भगवानृषिः ।। 1.3.38 ।। 
अनागतं
च 
यत्किञ्चिद्रामस्य-यत् कञ्चित् रामस्य् 
वसुधातले
तच्चकारोत्तरे -तत् चकार उत्तरे
काव्ये 
वाल्मीकिर्भगवानृषिः-वाल्मीकि: भगवानृषिः
 
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्बालकाण्डे तृतीयः सर्गः ।। 3 ।। 
इत्यार्षे-इति आर्षे
श्रीमद्रामायणे- श्रीमत् रामायणे
वाल्मीकीये 
आदिकाव्ये 
श्रीमद्बालकाण्डे -श्रीमत् बालकाण्डे
तृतीयः 
सर्गः